एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये पञ्च, पञ्च, पञ्चभिः, पञ्चभ्यः, पञ्चभ्यः, पञ्चानाम्, पञ्चसु । इतिवद् अन्येषामपि षट्संज्ञानां रूपाणि । ३०८ । रायां हलि । (७-२-५) रैशब्दस्यात्वं हलादौ विभक्तौ । राः । राभ्याम् । राभिः । राभ्यः । रासु । युष्मदस्मदोः प्रक्रिया पृथग्वर्णयिष्यत इति तत्सम्बद्धानि सूत्राणि मध्यगतान्यत्रो- पेक्षितानि । ३०९ । त्रिचतुरोः स्त्रियां तिसृचतसृ । (७-२-९९) स्त्रियां वर्तमानयोरनयोरुक्तावादेशौ स्याताम् । जसि- 'जसि च' (२३३) इति, ‘ऋतो ङि…………….’ (२३४) इति वा गुणे, शसि पूर्वसवर्णदीर्घे च प्राप्ते- ३१० । अचि र ऋतः। (७-२-१००) तिसृचतस्रोः ऋकारस्य रेफादेशः स्यादजादौ विभक्तौ । आमि 'ह्रस्वनद्यापः" (२४६) इति नुटि ‘न तिसृचतसृ' (२४९) इति दीर्घनिषेधः । तिस्रः, तिस्रः, तिसृभिः, तिसृभ्यः, तिसृभ्यः, तिसृणां, तिसृषु । , . चतस्रः, चतस्रः, चतसृभिः, चतसृभ्यः, चतसृभ्यः, चतसृणां, चतसृषु । पुन्नपुंसकयोः आमि ‘त्रेस्त्रयः' (२४५) इति त्रयादेशे 'नामि' इति दीर्घः । चतुरः 'षट्चतुर्ग्यश्च' इति नुट्, हलन्तत्वान्न दीर्घः । पुं – त्रयः त्रीन् क्ली – त्रीणि त्रीणि } त्रिभिः, त्रिभ्यः, त्रिभ्यः, त्रयाणां, त्रिषु । की—चत्वारि चत्वारि } चतुर्भि, चतुर्भ्यः, चतुर्भ्यः, चतुर्णा, चतुर्षु॥ १ सर्वनामस्थाने 'चतुरनडुहोः... जरा , इत्यामागमः (२८९) । ३११ । जराया जरसन्यतरस्याम् । (७-२-१०१) जराशब्दस्य जरस् इत्यादेशो वा अजादौ विभक्तौ । यथा— जरां जरे जराः । जरसं जरसौ जरसः । ...... जरे जरा: जरसः ( जरसौ जरायै जरसे जराया: जरसः जरया जरसा हलादौ तु - जराभिः अङ्गाधिकारस्थितत्वात् तदन्तविधिः- निर्जर: 5 निर्जरौ { ( निर्जरसौ [सुबन्त जराभ्यः जरासु । जरयोः जराणां जरसोः जरसां निर्जरा: निर्जरसः इत्यादि । जरायाम् ॥ जरसि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१३३&oldid=347500" इत्यस्माद् प्रतिप्राप्तम्