एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये ३१६ । अदस औ सुलोपश्च । (७-२-१०७) अदसः सौ परे औकारोऽन्तादेशः स्यात् सोर्लोपश्च । यथा- अदस् + स्—अद औ + स्– सुलोपे, अदौ-दकारस्य पूर्वसूत्रेण सत्वं, असौ । अकारान्तत्वाभावात् स्त्रियां न टापू 'असौ' इति पुंसि स्त्रियांच तुल्यमेव रूपम् । क्लीबे तु 'स्वमो...' (२१९) इति लुका सुः परो नास्तीति नैतत्प्रवर्तते । द्विवचने अदस् + औ इत्यत्र त्यदाद्यत्वेन अदौ इति जाते असिद्धकाण्डे विकार उक्त:- १९६ [सुबन्त - ३१७ । अदसोऽसेर्दादु दो मः । (८-२-८०) अदसः, असे:, दात्, उ, दः, मः इति पदच्छेदः । (असे:) सैकारान्त-इकारान्तभिन्नस्य अदसो दकारात् परस्य स्वरस्य उकारः स्यात् ; तदा दकारस्य मकारश्च | दस्य मुः इति सङ्घातस्यैवादेशमनु- क्त्वा ‘दादु दो मः' इति प्रत्येकमादेशविधानम् 'अप्रत्ययः' (३८) इति निषेधं बाधित्वा विधेयकोटौ प्रविष्टस्याप्युकारस्य आन्तरतम्येन ह्रस्वस्य उकारः, दीर्घस्य ऊकार इति सवर्णग्रहणार्थम् । अनेन अदौ अमू ॥ = बहुवचने अदन्तत्वात् 'जस: शी' (२११) इति शीभावेन ‘अदे' इति जाते मुत्वस्यापवादो मीत्वं विधीयते- ३१८ । एत ईद् बहुवचने । (८-२-८१) बहुवचनविषये अदसो दकारात् परस्य एकारस्य 'ई' इत्या- देश:, नू तु 'उ' इति । अदे = अमी । स्त्रियां तु अदन्तत्वाट्टापि अदाः = अमूः, एकाराभावादीत्वं न || = १. अदसूशब्दः त्यदाद्यत्वेन अकारान्तो भवति । 'विष्वग्देवयोश्च टेरद्र्यञ्चताव- प्रत्यये' इति सूत्रेण ‘अदद्रि' इति इकारान्तता चास्य स्यात् । इकारान्तत्वे त्यदाद्यत्वा- भावे च मुत्वं न स्यादित्यर्थः । ‘ असे:” इति पदस्य व्याख्याने पक्षमेदाः सन्ति । F

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१३५&oldid=347502" इत्यस्माद् प्रतिप्राप्तम्