एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० लघुपाणिनीये ३२६ । आद्यन्तवदेकस्मिन् । (१-१-२१) एकस्मिन् वर्णे क्रियमाणं कार्यं तदादाविव तदन्त इव च स्यात् । तेन अदादेरदन्तस्य च विहितं कार्यमकारमात्रस्यापि भवति ॥ त्यदादिष्वेतत्तदोरन्योऽप्यस्ति विशेषः— ३२७ । एतत्तदोः सुलोपोऽकोरनञ्समासे — हलि । (६-१-१३२) (अको:) अकच्प्रत्ययरहितयोः एतत्तदोः 'सु' प्रत्ययलोप: स्यात् संहितायां हलि परे; नसमासे तूक्तं न । यथा - - [सुबन्त एषस् + ददाति प्रत्यु० - ('अकोः' किम् ? ) एषको ददाति; सको ददाति । ('अनञ्समासे' किम् ? ) अनेषो ददाति । = एष ददाति । | सस् + ददाति = स ददाति । एष न भवतीत्यनेष: ; स न भवतीत्यसः ॥ ('हलि' किम् ?) एषोऽत्र; सोऽत्र । ३२८ । सोचि लोपे चेत् पादपूरणम् । (६-१-१२४) अचि परेऽपि 'सः' इति तदः सुलोप: स्यात्, लोपेन पाद- पूरणं प्रयोजनं लभ्यते चेत् | यथा— 66 'सैष दाशरथी रामः, सैष राजा युधिष्ठिरः । सैष कर्णो महात्यागी, सैष भीमो महाबलः ॥ 39 प्रयोजनापेक्षोऽयं विधिस्तस्यान्यथैव सिद्धत्वे न प्रवर्तते । अतः 'सोऽहमाजन्मशुद्धानाम् " इत्यादौ विनैव लोपं पादपूरणाल्लोपो न भवति ॥ अत्रेदं चोद्यम्—नेनु नपुंसके स्वमोर्विषये त्यदाद्यत्वं कुतो न भवति ? तत्र हि 'स्वमोर्नपुंसकात्' इति प्रत्ययो लुप्यते; विभक्तेः परत्वाभावादत्वस्य न प्रसक्तिरिति चेत्, नेदं तर्हि 'राजा' इत्यादावपि हल्ङयादिलोपेन ततो नेदं समाधानम । सुप्रत्ययस्यादर्शनात्

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१३९&oldid=347506" इत्यस्माद् प्रतिप्राप्तम्