एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ लघुपाणिनीये [सुबन्त विधयो युगपत् समाविशन्ति तत्र बलपरीक्षा कर्तव्या । सा चैवम्- सूतानुक्रमे पूर्वात् परं बलीय: । पराप्यनित्यात् नित्यं बलीयः । नित्यादपि बहिरङ्गादन्तरङ्गं बलीयः । अन्तरङ्गादप्युत्सर्गादपवादो बली- यान् । एष्वपवादः पूर्वमेवोक्तलक्षणः । कृताकृतप्रसङ्ग नित्यम्; अल्पा- श्रयमन्तरङ्गं, बह्वाश्रयं बहिरङ्गं इत्यन्ययोः प्रायिकं लक्षणम् । लक्षणा- न्तराण्यपि क्वचिदाश्रीयन्ते । अनया रीत्या प्रकृते बलपरीक्षायां कृतायां सूत्रानुक्रमे परमप्यत्वं नित्येन लोपेन बाध्यते । लोपो हि कृतेऽकृतेऽप्य- त्त्वे सावकाशः । ननु कथमत्वे कृते लोपस्य प्रसङ्गः ? 'अतोऽम्' इति अमादेशस्य अपवादस्य सद्भावात् इति चेत्, नैष दोषः । प्रसक्त एव किलोत्सर्गोऽपवादेन बाध्यते । अतः कृतेऽप्यत्वे अस्त्येव लोपस्य प्रसङ्गः । यदि पुनरत्वं लब्धप्रतिष्ठम् अभविष्यत् तदैव हि लोपामादेशयोः उत्स- र्गापवादचिन्ता प्रासक्ष्यत, इत्यलं प्रसक्तानुप्रसक्तया सिद्धान्तचिन्तया; प्रकृतमनुसरामः ॥ अत्र इदमदसोः प्रक्रियाजटिलतया रूपनिष्पत्ति: कष्टा संवृत्ता । युष्मदस्मदोस्त्वितोऽपि कष्टतरा दृश्यते । यत्र व्यापक: सामान्यविधिर्न सुकरः, तत्र सिद्धरूपपाठ एव वरीयान् । अभिमतश्चायं मार्ग आचा- र्यस्यापि ; यतः स ' सद्यः परुत्परायैषमः' इत्यादीन् शब्दान् प्रक्रियां विनैवानुशास्ति । योऽयं निपात इत्युच्यते । अतो बाला युष्म- दस्मदोः सिद्धां रूपावलिमेव पठन्तु । व्यत्यस्तबहुलस्यापि शब्दस्य रूपाणि प्रक्रियाव्यसनी पाणिनिरलुप्तक्षम एवानायासमिव कथं निष्पा- दयतीति प्रदर्शयितुं परं कथ्यते ।। युष्मदस्मत्प्रक्रिया ॥

३३३ | युष्मदस्मद्भयां ङसोऽश् । (७-१-२७) युष्मदस्मद्भयां परस्य षष्ठयेकवचनस्य अश् इत्यादेशः । शित्वात् सर्वादेशः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१४१&oldid=347508" इत्यस्माद् प्रतिप्राप्तम्