एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिनिष्ठाकाण्डः । ३३४ । ङेप्रथमयोरम् । (७-१-२८) आभ्यां चतुर्थ्येकवचनस्य प्रथमाद्वितीययोश्च अम् इत्यादेशः । ३३५ । शसो न । (७-१-२९) आभ्यां शसो नकारोऽन्तादेशः । अमोऽपवादः । प्रकरणम् ] ३३६ । भ्यसो भ्यम् । (७-१-३०) आभ्यां भ्यसो भ्यं, चतुर्थीबहुवचनस्यायमादेशः । पञ्चमीबहुवचनस्य तु ३३७ । पञ्चम्या अत् । (७-१-३१) आभ्यां पञ्चम्या भ्यसः अत् इत्यादेशः । १२३ ३३८ । एकवचनस्य च । (७-१.३२) आभ्यां पञ्चम्या एकवचनस्य (ङसे:) च अत् इत्यादेशः । ३३९ । साम आकम् । (७-१-३३) साम् इति कृतसुट्कस्य आमो निर्देशः । सुटो निवृत्त्यर्थं ससुटकस्य आदेश- विधानम् । एवं प्रत्ययानामादेशाः । अथ प्रकृते विकाराः- ३४० । युष्मदस्मदोरनादेशे (आ) । (७-२-८६) पुष्मदस्मदोः अनादेशरूपायां विभक्तौ परतः आकारोऽन्तादेशः स्यात् । ३४१ । द्वितीयायां च । (७-२-८७) युष्मदस्मदोराकारोऽन्तादेशः । ३४२ | प्रथमायाश्च द्विवचने भाषायाम् । (७-२-८८) प्रथमाद्विवचने च अनयोराकारोऽन्तादेशः । भाषायामेव न तु छन्दसि ३४३ । योऽचि । (७-२-८९) अजादौ अनादेशरूपायां विभक्तौ युष्मदस्मदोर्यकारोऽन्तादेशः स्यात् । ३४४ | शेषे लोपः । (७-२-९०) उक्तादन्यः शेषः । आकारयकारादेशयोरविषये युष्मदस्मदोरन्त्यस्य लोपः स्यात् । पञ्चम्याश्च चतुर्थ्याश्च षष्ठीप्रथमयोरपि । यान्यद्विवचनान्यत्र तेषु लोपो विधीयते ॥” ३४५ । मपर्यन्तस्य । (७-२-९१) अधिकारोऽयम् । इतः परं वक्ष्यमाणा युष्मदस्मदोरादेशाः युष्म्, अस्म् इति मपर्यन्तांशस्य बोध्याः । ,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१४२&oldid=347509" इत्यस्माद् प्रतिप्राप्तम्