एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिनिष्ठाकाण्डः । प्रत्यु० – ('पदात्' किम् ? ) युष्मान् पातु हरिः । ('अपादादौ' किम् ? ) युष्मान् पातु हरिर्नित्यमस्मानपि महेश्वरः । ॥ युष्मदस्मदादेशा अनन्वादेशे वा वक्तव्याः ॥ अन्वादेशे तु नित्यं स्युः । यथा - 11 ‘त्वं मद्गृहमागच्छ; पुस्तकं ते दास्यामि' । अत्र तुभ्यं दास्यामि इति न भवति ॥ ३६० । न च-वा-हा-हैवयुक्ते । (८-२-२४) एषां निपातानां योगे युष्मदस्मदादेशा: न स्युः । यथा - हरिस्त्वां मां च रक्षतु । कथं त्वां, मां वा न रक्षेत् इत्यादि । अत्र त्वामादेशौ न भवतः । प्रकरणम् ] पदात् परयोरेव युष्मदस्मदोरादेशा विहिताः । तत्र पदात् परत्वे नियममाह -- १२७ ३६१ । आमन्त्रितं पूर्वमविद्यमानवत् । (८-१-७२) आमन्त्रितमिति संबोधनप्रथमाया: संज्ञा । आमन्त्रितात्मकं पूर्व- पदम् असदिव स्यात् । पदात् परत्वस्य विचारणायां आमन्त्रितं पूर्वपद- त्वेन न गण्यत इत्यर्थः । यथा- -- हरे मां पाहि; हरे तुभ्यं नमः । अत्र हरे इत्यस्य आमन्त्रितत्वात् तन्निमित्तकं पदात् परत्वमादाय मां, तुभ्यमित्यनयोः मा, ते इत्यादेशौ न भवतः । ३६२ | नामन्त्रिते समानाधिकरणे सामान्यवचनम् । (८-१-७३) समानाधिकरणे विशेषणे परे सामान्यवचनस्य (विशेष्यस्य) आम- न्त्रितस्य अविद्यमानवद्भावो न स्यात् । यथा- हरे दयालो नः पाहि । निर्बन्धा एते कालक्रमाच्छिथिलीभूताः । - - अथ इदमेतदोरन्वादेशरूपाणि-'पदस्य ' ' पदात्' इत्यादयोऽधि- कारा नात्र सन्ति; 'प्रातिपदिकस्यैवादेशो विधीयते । 'इदमोऽन्वादेशे एतदः' इत्यनुवर्तमाने-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१४६&oldid=347513" इत्यस्माद् प्रतिप्राप्तम्