एतत् पृष्ठम् परिष्कृतम् अस्ति
xvi
मुद्रणव्यवस्था ।


४. अणुलिपिः मध्यमरेखा ।

१. अनत्यन्तोपयुक्तानां विशेषविधिपराणाम् अणुलिपिभिर्मुद्रितानां सूत्राणां व्याख्यानम् । २. कारिकाः ।

५. अणुलिपिः कृशरेखा ।

१. उदाहरणानि । २. पृष्ठानामधोभागे टिप्पणानि ।

 सविशेषमुद्दिष्टानि पदान्युभयोरपि लिप्योः स्थूलरेखाक्षरैर्मुद्रितानि । यथा - (१) प्रत्यय: आदेश: इत्यादीनि प्रथमपृष्ठे । (२) ग्लौ- शब्दस्य रूपाणि ७६-तमपृष्ठे । यथा च भू सत्तायां, एध वृद्धौ इत्यादयो धातवः, भूयात् एधिषीष्ठ इत्यादीनि तेषां रूपाणि च २४२-तमपृष्ठे ॥

 सूत्रानुक्रमानुरोधादुपात्तानि प्रकरणान्तर एवोपयुक्तानि सूत्राणि व्याख्योदाहरणसहितानि आनुषङ्गिकत्वद्योतनाय कोष्ठचिहेन [ ] एवंरूपेण पृथक्कृतानि । यथा २५-तमपृष्ठे अन्तादिवच्च, षत्वतुकोरसिद्धः इति सूत्रद्वयम् ॥

 न केवलं वाक्येषु समासेष्वपि क्वचित् सन्धिकार्याणि सुखार्थमुपेक्षितानि ॥

 द्वितीयमुद्रणेऽस्मिन्नक्षराणां शुद्धये सन्निवेशसौन्दर्याय च सविशेषो यत्न आस्थितः। अथापि सर्वमनवद्यमिति प्रतिज्ञातुं शङ्कत एव हृदयम् ॥


अत्यूर्जितं वस्तु चलं च चित्तमतः प्रमादः सुलभः प्रणेतुः । प्रमादिनौ लेखकमुद्रकौ च; क्वात्यन्तिकी पुस्तक ! ते विशुद्धिः ?

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१५&oldid=351488" इत्यस्माद् प्रतिप्राप्तम्