एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२ लघुपाणिनीये हरिसु = हरिषु – सुप्प्रत्ययावयवः सकार: .... गुरुषु, पितृषु, रामेषु, गीर्षु... .. इणः परः,, वाक्षु, क्रुषु... कवर्गात् प्रत्यु० – ( 'इण् कुभ्याम्' किम ? ) नामसु, राजसु, सम्पत्सु | (‘अपदान्तस्य' किम ? ) हविस्, – हविः, हविर्भिः; धनुस्, –धनुः, धनुर्भिः । ('आदेशप्रत्यययोः' किम् ? ) विसम् । नुमादिव्यवधानेऽपि षत्वं यथा- - - हवींषि, धनूंषि – नुमा व्यवधानम् । हविःषु, धनुःषु — विसर्गेण । [षत्व हविष्षु, धनुष्षु– सकारेण । अत्र हविस्ं +सु इति स्थिते प्रकृतिसकारस्य पदान्तत्वात् षत्वं न भवति ; प्रत्ययसकारस्य प्रकृतिसकारव्यवधानेऽपि 'शर्व्यवायेऽपि' इति षत्वम् ; ततः ष्टुत्वेन प्रकृतिसकारस्य षः, हविष्षु इति रूपसिद्धिः । एतदर्थमेव शर्व्यवायेऽपीत्युक्तम् । अन्यथा सकारस्य सकारेण व्यवधानं धूर्तप्रलापः स्थत् । 'त्रिचतुरोः स्त्रियां तिसृचतसृ' इति तिस्रादेशस्य षत्वं मा भू- दिति ‘आदेशः प्रत्ययावयवो वा' इति भेदेन व्याख्यातम् । आगमानां प्रत्ययावयवत्वेन ग्रहणात् 'सर्वेषाम्' इत्यादौ सुटः षत्वम् ।। [३७६ । शासिवसिघसीनां च । (८-३-६०) एषामिण्कुभ्यां परस्य सस्य षः । धात्ववयवत्वेनाप्राप्तौ वचनम् । यथा - शास्—शिष्टः, अशिषत्, शिष्यः । वसू – उषितम् ; उषित्वा । घस् –जक्षतुः; जक्षुः । प्रत्यु॰ –(‘इण्कोः’ किम् ? ) शास्ति ; वसति ; जघास | १. शर् = श-ष-साः । एषु शस्य 'ब्रश्चभ्रस्ज' इति षत्वं, 'झलां जश्' इति जश्त्वं वा, षस्य ' षढोः' इति कत्वं च सकारे परेऽवश्यं भावि । परिशेषात् सका- रव्यवधान एव उदाहरणसम्भवः । इत्थं च प्रत्याहारग्रहणं चिन्त्यप्रयोजनमित्यभिसंधिः । भाविक

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१५१&oldid=347518" इत्यस्माद् प्रतिप्राप्तम्