एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ] परिनिष्ठाकाण्डः । ३७७ । स्तौतिण्योरेव षण्यभ्यासात् । (८-३-६१) अभ्यासगतादिणः षत्वं कृतषत्वे सनि स्तुधातोर्ण्यन्तानां चैव नान्येषाम् । यथा- प्रत्यु० स्तु —तुष्टृषति—; ण्यन्तम्- सिषेवयिषते । – ( अन्येषां तु ) सिच् ---सिसिक्षति ; 6 - सू – सुसूषते । ३७८ । सः स्विदिस्खदिसहीनां च । (८-३-६२) एषां कृतषत्वे सनि सस्य स एव । षत्वनिषेधार्थ वचनम् । यथा- सिस्वेदयिषति ; सिस्वादयिषति ; सिसाहयिषति । ३७९ । प्राक्सितादडव्यवायेऽपि । (८-३-६३) परिनिविभ्यः सेवसित...' इति ७०- १३३ ७० तमसूत्रे सितशब्दात् प्राकू विधयः अडागमेन व्यवधानेऽपि स्युः । यथा -- अभ्यषुणोत्; अभ्यषिचत्; न्यषेधत्; न्यषीदत् इत्यादि । 'उपसर्गात् सुनो- ति...’ (३८१) ‘सदिरप्रतः' (३८२) इति वक्ष्यमाणं षत्वम् । ३८० । स्थादिष्वभ्यासेन चाभ्यासस्य । (८-३-६४) 'उपसर्गात् सुनोति' इति उत्तरसूत्रे स्थाशब्दात् प्रभृति 'परिनिविभ्यः...' (३८६) इति सूत्रे 'सित' इत्यतः प्राचीनानामभ्याससकारस्य अभ्यासव्यवधाने- ऽपि प्रकृतिसकारस्य च षत्वं स्यात् । यथा - - स्था — अधितष्ठौ – अभ्यासव्यवधाने । सेन – अभिषिषेणयिषति । - अभ्यासस्येति वचनं नियमार्थम् । स्थादिष्वेव अभ्याससकारस्य षत्वमिति, नान्यत्र ‘अ- भिसुसूषति' इत्यादौ । ३८१ | उपसर्गात् सुनोति-सुवति-स्यति स्तौति-स्तोभति-स्था- सेनय-सेध-सिच-सञ्ज-स्वञ्जाम् । (८-३-६५) उपसर्गस्थान्निमित्तात् (इण् कुभ्यां ) परस्य सुनोत्यादीनां सस्य षः । यथा-- सु — अभिषुणांति — अभ्यषुणोत् । सु - अभिषुवति – अभ्यषुवत् । इत्यादि । ३८२ । सदिरप्रतेः । (८-३-६६) उपसर्गस्थान्निमित्तात् परस्य सस्य षः । न तु प्रतेः परस्य । यथा - निषीदति–न्यषीदत् (३७९) निषसाद (३८०) । प्रत्यु० – प्रतिसीदति । ०- ३८३ । स्तम्भेः । (८-३-६७) पूर्ववत् । यथा-- --अभिष्टनाति; अभ्यष्टनात् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१५२&oldid=347519" इत्यस्माद् प्रतिप्राप्तम्