एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ] परिनिष्ठाकाण्डः । S) (३९० । सुषामादिषु च । (८-३.९८) सुषामादयः शब्दाः कृतषत्वा निपात्यन्ते । यथा- सु + सामन् = सुषामन् । दुष्षन्धिः, सुष्षन्धिः । सुष्टु, दुष्टु इत्यादि । ३९१ । ह्रखात् तादौ तद्धिते । (८-३-१०१) हस्वात् परस्य सस्य षः तकारादौ तद्धिते परे । यथा - चतुस् + तयं = चतुष्टयम् । पदान्तेऽपि आदेशप्रत्ययभिन्नस्यापि षत्वार्थे वचनम् । ३९२ । सात्पदाद्यो: (न) । (८-३-१११) ४ सात् इति तद्धितप्रत्ययस्य पदादिसकारस्य च न षत्वम् । यथा- अग्निसात्, गुरुसात्, पितृसत् । दधि सिञ्चति, मधु सिञ्चति । गत्वप्रकरणम् । ३९३ । रषाभ्यां नो णः समानपदे । (८-४-१) रेफषकाराभ्यां परस्य नस्य णः स्यात्; रेफषकारौ नकारश्च एकस्मिन्नेव पदे वर्तन्ते चेत् । यथा- चतुर्णा, वितीर्णे, पुष्णाति, मुष्णाति । प्रत्यु० – ('समानपदे' किम् ?) अग्निर्नयति । - ॥ * ॥ ऋवर्णाच्चेति वक्तव्यम् । यथा- तिसृणां, पितॄणाम् । ३९४ । अकुप्वाङ् नुम्व्यवायेऽपि । (८-४-२) अट्प्रत्याहारः, कवर्गः, पवर्गः, आङ् उपसर्गः, नुमागमः एभि- र्व्यस्तैः यथासम्भवं समस्तैर्वा व्यवधानेऽपि रेफषकारऋकारेभ्यः परस्य नस्य णः स्यात् समानपदे । यथा- अव्यवाये–करिणा, गुरुणा, चोरेण, पुरुषेण । कवर्ग – अट् – अर्केण, मूर्खेण, मृगाणाम् । पवर्ग - दर्पेण, चर्मणा, पुष्पेण । – पर्याणद्धम् । १३५ आङ् नुम् " - बृंहणम् । अट्पवर्ग,, –ब्रह्मणा, रामेण । प्रत्यु० -('समानपदे' किम्?) वारिनिधिः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१५४&oldid=347521" इत्यस्माद् प्रतिप्राप्तम्