एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्ता हे कर्तः लघुपाणिनीये ऋकारान्ताः । पुंसि कर्तृशब्दः- ऋतो ङीति गुण: अप्तृ- निति दीर्घश्च अनङ्, उपधा- दीर्घः, हल्ङ्यादि- कर्तारौ लोपः, नलोपः, गुणः, हल्ड्यादि- । । लोपश्च कर्तारम् (गुणदीर्घौ) कर्त्रा ( सन्धिः यण् ) ( कर्तुः (ऋत उत्) कर्त्रे ) >> कर्तरि (गुण:) " कर्तृभ्यां i, कर्त्राः - } [नामरूपावलिः कर्तारः (गुणदीर्घौौं) " कर्तॄन् (पूर्वसवर्णदीर्घः) कर्तृभिः कर्तृभ्यः पितृप्रभृतीनामव्युत्पन्नानां सर्वनामस्थाने दीर्घाभावो भेदः । कर्तॄणां (नुद्दीघौं) कर्तृषु ( षत्वम्) 6 स्त्रियां 'मातृ' शब्द:- शसि मातृ: शेषं पितृवत् । स्वसृशब्दस्य शसि स्वसॄः; शेषं कर्तृवत् । स्त्रियां स्वस्रादिसप्तकमेव ऋकारान्तम्; अन्येषां 'ऋन्नेभ्य...' इति ङीब्विधानात् । क्लीबे कर्तृशब्द:- इदुदन्तवन्नुमागमेन रूपसिद्धिः । कीबे इगन्तानां विशेष्य- निघ्नानां गालवमतेन तृतीयादिषु पुंवद्भावे पुल्लिङ्गरूपाणि च ॥ एजन्ता विरला एव शब्दाः; तेषूपलभ्यमानाः प्रागेव दर्शित- प्रक्रियाश्च । हलन्तेष्वप्येवमेवोन्नेया रूपसिद्धिः । तेषु प्रायः प्रत्ययानामा- देशाभावात् सुगमतरा प्रक्रिया । सर्वनामस्थानकार्य, पदकार्य, भकार्यम् इति विभागं पुरस्कृत्य प्रकुर्यात् । हल्सन्धावुक्ताः कुत्व-ढत्व-षत्व-जश्त्व- चर्त्व-रुत्वादयः पदान्तविकारा अप्यनुसंधेयाः ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१६५&oldid=347532" इत्यस्माद् प्रतिप्राप्तम्