एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [तिङन्त कर्तुरनन्तरं कर्मणः प्राधान्यं, क्रियायामप्रधानांशस्य फलस्याश्रयत्वात् । अन्यानि तु कारकाणि करणादीनि परिकरमालम् || क्रिया किल द्रव्यमाश्रित्यैव तिष्ठतीत्युक्तम् ; तथा च वृक्षावल- म्बिन्या लताया इव आश्रयभूतद्रव्यप्रतीतिपूर्वमेव क्रियायाः प्रतीति- र्जायते । आश्रयेषु च कर्ता कर्म च धातुवाच्यांशस्य समवायीति प्रधानम् । इतराणि तु प्रकृतधातुवाच्यव्यापाराक्षिप्तानामवान्तरव्यापाराणामाश्रया इत्यप्रधानम् । अत: कर्तृकर्माविनाभावेनैव क्रियाया बोधो जायते । यत्र कर्तारं पुरस्कृत्य क्रिया भासते तत्र कर्तरि प्रयोगः; यत्र कर्म पुरस्कृत्य क्रिया भासते तत्र कर्मणि प्रयोगः । यदा पुनः कारकसंसर्ग पदान्तर- बोध्यत्वेन विवक्षित्वा केवला क्रिया धातुना विवक्ष्यते तदा भावे प्रयोगः । भावो नाम केवला क्रियैव । समानाधिकरणफलव्यापारवाच- कानां धातूनां कर्ता कर्म च वस्तुत एकमेव । एवञ्जातीयकानामितरान- धीनत्वलक्षणं प्राधान्यं पुरस्कृत्य जायमानो व्यपदेशः कर्तेत्येव युज्यते यथा-मण्डलेश्वरोऽपि सम्राट् सम्राडित्येव व्यवह्नियते । इत्थमकर्म- काणां कर्म पुरस्कृत्य प्रयोगो न संभवति । यासां क्रियाणां कारकरूपा उपाधयो विरलास्तासामेव निरुपाधिकं प्रतिभानं स्वारसिकं युज्यत इति अकर्मकाणां भावे, कर्तरि च प्रयोगः; सकर्मकाणां तूक्तयुक्त्यैव कर्मणि कर्तरि च प्रयोगः । तदेतदभिसन्धायाचार्य: सूत्रयति- ४१४ । लः कर्मणि च भावे चाकर्मकेभ्यः । (३-४-६९) कर्तरीत्यनुवर्तते । लकार: कर्तरि कर्मणि च स्यात् । अकर्मके- भ्यस्तु कर्तरि, भावे च । अथ लखादेशानाह— ४१५ । लस्य । (३-४-७७) १४८ इत्यधिकृत्य- ४१६ । तिप्तसझि-सिप्थस्थ-मिब्वस्मस्-तातांझ- थासाथांध्वम्-इड्डहिमहिङ । (३-४-७८) -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१६७&oldid=347534" इत्यस्माद् प्रतिप्राप्तम्