एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [तिङन्त ल्लुप्तप्रचारा विकल्पमात्र इदानीं पर्यवसिता । 'अग्निष्टोमेन स्वर्गकामो यजेत' इत्यादिविधिवाक्येषु ‘गयाश्राद्धं करिष्ये' इत्यादिसङ्कल्पेषु च परमनुष्ठीयते । स्वरसंस्कारं विना यतः संस्कृतभाषेदानीन्तनैरेक श्रुत्यैव भाष्यते तत उदात्तेत्त्वानुदात्तेत्त्वस्व रितेत्त्वैर्लक्षितः पदविवेकोऽपि सङ्केत- मात्रं संवृत्तः, न तूपयोगाय कल्पते । अतो नाम्नां लिङ्गव्यवस्थेव धातूनां पदव्यवस्थापि पृथग्यत्नेनैवावगन्तव्या वर्तते । अथोभे अपि पदे त्रिभिः पुरुषैर्विभज्येते— - ४२२ । तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः । (१-४-१०१) तिङ उभयो: पदयोस्त्रयः त्रिका: क्रमादुक्तसंज्ञाः स्युः ॥ ४२३ । तान्येकवचनद्विवचन बहुवचनान्येकशः । (१-४-१०२) प्रथमादिपुरुषत्रयं क्रमात् प्रत्येकमेकवचनादिसंज्ञं स्यात् । द्व्येकयोर्द्विवचनैकवचने' 'बहुषु बहुवचनम्' इति वचनानां विनियोगः पूर्वमेवोक्तः । पुरुषाणां तु विनियोगमाह- ४२४ । युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि १५० 6 - मध्यमः । (१-४-१०५) ४२५ । अस्मद्युत्तमः । (१-४-१०७) ४२६ । शेषे प्रथमः । (१-४-१९०८) समानमधिकरणं प्रवृत्तिनिमित्ताश्रयो येषां ते समानाधिकरणा: । यथा 'नीलमुल्पलम्' इत्यत्र नीलत्वमुल्पलत्वं च एकमेव वस्तु उल्पल- रूपमाश्रित्य तिष्ठति; अतो नीलपदम् उल्पलपदस्य समानाधिकरणं विशेषणम् । यत्र त्वाश्रयभेदस्तत्र व्यधिकरणं विशेषणम् । यथा— राज्ञः पुरुष इति । अत्र यद्यपि जपदं पुरुषं विशिनष्टि तथापि राजत्वं पुरुषत्वं च भिन्नवस्तुनिष्ठम् । एकस्यामेव विभक्तौ प्रयुक्तयोः विशेषण- विशेष्ययोः सम्बन्ध: सामानाधिकरण्यमिति फलितम् । केन सह - १. भिन्नप्रवृत्तिनिमित्तयोः पदयोबेकस्मिन् धर्मिणि वृत्तिः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१६९&oldid=347536" इत्यस्माद् प्रतिप्राप्तम्