एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ] - सामानाधिकरण्यमित्याकाङ्क्षायां लकारवाच्यकारकेणेत्यर्थादायाति । स्थानी = स्थानवान्, प्रसक्तः, अप्रयुज्यमानोऽर्थसिद्ध इति यावत् । उपपदं नाम साकाङ्क्षसहप्रयुज्यमानं पदम् । एवं परिकरबन्धं कृत्वा सूत्रार्थो व्याख्यायते - लकारवाच्यभूतेन कारकेण (कर्जा, कर्मणा वा) समानाधिकरणे युष्मच्छब्दे प्रयुज्यमाने अर्थसिद्धे वा मध्यमः प्रयोक्तव्यः; एवं भूते अस्मच्छब्दे उत्तमः; मध्यमोत्तमयोरविषये प्रथमः । कर्तरि प्रयोगे कर्तुः, कर्मणि प्रयोगे कर्मणश्च युष्मदा अस्मदा नामान्तरेण वा सामानाधिकरण्यं विमृश्य पुरुषनिर्णयः । वचननिर्णयोऽप्येवमेव । कर्तुः कर्मणो वा एकत्वे एकवचनम् ; द्वित्वे द्विवचनम्; बहुत्वे बहुवचनमिति । एवं च पुरुषद्वारा कियायामपि संख्यायोगः । लकारार्थभूतं कारकं पुरुषवचननियामकमिति संक्षेपः । अथ कथं भावे प्रयोगे पुरुषवचन- विभागः, तत्र लकारवाच्यस्य कारकस्यैवाभावात् ? इति चेत्, नास्त्येवे- त्युत्तरम् । प्रथमपुरुष एकवचनं च सामान्यमिति कृत्वा प्रथमपुरुषैक- वचनप्रत्यय एव भावे प्रयोगे सर्वत्र प्रयुज्यते । पदयोरुभयोरपि पुरुष- वचनप्रत्यया यथायथं विभज्याधो दर्शिता:- परस्मैपदम् । एक० प्रथमः- -तिप् मध्यमः- सिप् उत्तमः – मिप् - प्रथमः - सानुबन्धाः । द्वि -त मध्यमः - थास् - उत्तमः - इट् तसू थस् वस् आताम् आथाम् वहि परिनिष्ठाकाण्डः । बहु० झि । थ। मस् । एक० ति. सि ध्वम् । महिङ् । EE आत्मनेपदम् । to मि वस् त - निरनुबन्धाः । द्वि थासू इ तसू थस् आताम् आथाम् वहि O झि । थ। मसू । १५१ झ। महि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१७०&oldid=347537" इत्यस्माद् प्रतिप्राप्तम्