एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [तिङन्त परस्मैपदैकवचनेषु पकारः; आत्मनेपदोत्तमैकवचने टकार:; तद्बहुवचने ङकारश्च इत् । तसादौ सकारस्य, आतामादौ मकारस्य च 'न विभक्तौ तुस्मा: ' इति नेत्संज्ञा । झि, झ इत्यनयो: 'चुटू' इत्यनेन प्राप्ता- पीत्संज्ञा नात्र विवक्षिता; 'झोऽन्तः' (४६४) इति तस्यादेशविधानात् ॥ १५२ अथ कोऽसौ 'ल:' ? यख तिबादय आदेशा विधीयन्ते । 'ल' इति लट्, लिट्, लुट्, लट्, लेट्, लोट्, लङ्, लिङ्, लुङ्, लङ् इति प्रत्ययदशकस्य सामान्यग्रहणम् । एषु लेडेकश्छन्दस्येव प्रयुज्यते; अन्ये नव साधारणा: । ननु लट्, लिट् इत्यादीन् कुत्राप्यदृष्टश्रुतान् प्रत्ययान् प्रकल्प्य पारमार्थिका दृष्टश्रुताः ति, तस् इत्यादयस्तेषामादेशा इति किमर्थं गण्यन्ते ? किं नायं शिरोवेष्टनेन प्राणायाम: ? इति चेत्, मैवम् । कालसंसर्गे विना क्रियाया अन्वयपूर्तिर्न स्यात् । कालञ्च भूतो, भावी, वर्तमान इति त्रिविधः । तत्र भूतभाविनौ पुनर्दूर आसन्नश्चेति द्विविधौ । तयोरासन्नः अद्यतन इति, दूरोऽनद्यतन इति चोच्यते । भूतस्य पुनः परोक्षभूतमिति तृतीयोऽप्यस्ति प्रभेदः । वर्तमानस्त्ववधि- भूतत्वादेकविध एव । एवम्- (१) अद्यतनभूतम् । - (२) अनद्यतनभूतम् । (३) परोक्षभूतम् । (४) अद्यतन भावि । (५) अनद्यतन भावि । (६) वर्तमानम् । चेति भेदप्रभेदैः षड्डिधः कालः । किं च विधिनियोगप्रार्थनादिभिः प्रकारैर्विशिष्टायाः क्रियायाः प्रत्यायनमावश्यकम् । उक्तान् कालभेदान् प्रकारभेदांश्च दर्शयितुं कल्पिता लडादयः । ननु कथमिदं घटते ? लकाराणां हि कर्तृकर्मभावेष्वन्यतम एव वाच्योऽर्थ उक्तः । सत्यं, लडादयः कर्त्रादीनेवाभिद्धति, किं तु लत्वलित्वादिविशेषेण काल- प्रकारावपि द्योतयन्ति । तथा हि – यदा धातुर्वर्तमान कालावच्छिन्नायां क्रियायां वर्तते तदा लडाख्यो लकार: ; यदा भूतकालावच्छिन्नायां,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१७१&oldid=347538" इत्यस्माद् प्रतिप्राप्तम्