एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ] परिनिष्ठाकाण्ड: । १५५ बोधकास्तिङः इति । अत्र उपर्युपरिप्रत्ययोत्पत्तौ विकरणं प्रति केवलो धातुः प्रकृतिः; तिङ्प्रत्ययं प्रति विकरणविशिष्टो धातुरिति व्यवस्था । विशिष्टप्रकृतेरप्येवं प्रकृतित्वसम्पादनार्थं किल प्रकृतेरङ्गसंज्ञां विधाय, तां च 'यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्' (१८९) इति आदि- शब्दघटितां मध्यपातिप्रत्ययान्तरग्राहिणीं लक्षितवानाचार्यः । उक्तसूत्र- व्याख्या दृश्यताम् ॥ नव सन्ति विकरणप्रत्यया असाधारणा: । शप्, लुक्, श्लु, श्यन्, श्नु:, श, श्नम्, उ, श्वा इति । एषु लुक्, श्लु इति द्वौ लोपरूपौ । अन्येषु अन्त्यो हल् आदिः शकारश्चानुबन्धः । अमुकस्य धातोरमुकं विकरणमिति विवेचनं तु गणकरणेन । अत्र पाणिनिरादिमं विकरण- मुत्सर्ग प्रकल्प्य शेषानष्टौ तस्यापवादान् करोति । यथा – ४३७ । कर्तरि शप् (सार्वधातुके) । (३-१-६८) कर्तरि प्रयुक्ते सार्वधातुके परे धातोः शप्प्रत्यय: स्यात् । प्रत्ययानां सार्वधातुकार्धधातुकभेदं यथाप्रदेशं वक्ष्यामः । अथ शपोऽपवादा उच्यन्ते— ४३८ । दिवादिभ्यः श्यन् । (३-१-६९) दिवादिगणपठितेभ्यो धातुभ्यः श्यन् प्रत्ययः शपोऽपवादः ।। ४३९ । वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः । (३-१-७०) एभ्यो धातुभ्यः श्यन् वा; श्यनभावपक्षे औत्सर्गिक: शप् ॥ ४४० । स्वादिभ्यः अनुः । (३-१-७३) ४४१ । श्रुवः शृ च । (३-१-७४) श्रुधातोः अनुप्रत्ययस्तत्संनियोगेन धातो: 'ट' इत्यादेशश्च ।। ४४२ । तुदादिभ्यः शः । (३-१-७७) GDF ४४३ | रुधादिभ्यः श्नम् । (३-१-७८)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१७४&oldid=347541" इत्यस्माद् प्रतिप्राप्तम्