एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६ लघुपाणिनी ४४४ । तनादिकृञ्भ्य उः । (३-१-७९) ४४५ । क्रयादिभ्यः ना । (३-१-८१) ४४६ । स्तनभु-स्तुन्भु-स्कन्भु-स्कुन्भु-स्कुञ्भ्यः - अनुश्च । (३-१-८२) [तिङन्त एभ्य: श्री अनुश्च स्तः ॥ ४४७ । अदिप्रभृतिभ्यः शपः (लुक्) । (२-४-७२) अदादिभ्यः शपो लुक् स्यात् || ४४८ । जुहोत्यादिभ्यः श्लु: । (२-४-७५) एभ्यः शप: लुः । इलुरपि लोपपर्याय इत्युक्तम् (३३०) । इह किल भूवादिरदादिर्दिवादिरित्यादिर्दशगणात्मको धातुपाठः । तत्राष्टाना- मदादिप्रभृतीनां लुगाद्यपवादविधानाद् भूवादिचुराद्योः परिशिष्टयोः सनाद्यन्तानां चौत्सर्गिकः शप् । तत्र चुरादीनां 'णिच्' इत्यन्योऽप्यस्ति स्वार्थिकः प्रत्यय इति विशेषः । विकरणप्रत्ययांस्तत्तद्गणनिर्देशपूर्वी शार्दूल- विक्रीडितेन संगृह्णाति प्रक्रियासर्वस्वकारो भट्टनारायणः - “भूवादौ शवदादिकेषु लुगपि, श्लुः स्याज्जुहोत्यादिषु, - श्यन् दैवादिकधातुषु, अनुरपि च स्वादौ, तुदादौ तु शः, । रुध्यादौ श्न,-मथो तनादिषु भवेदप्रत्ययः, क्रयादिषु श्वा स्यात्, स्वार्थिकणिच्चुरादिषु, पुनस्तत्रापि शब्जायते ॥ " विकरणप्रत्यययोगं न सर्वे धातुभ्य उत्पद्यमानाः प्रत्यया अपे- क्षन्ते । इह हि प्रातिपदिकेभ्यो यथा सुपस्तद्धिताश्चेति द्विविधाः प्रत्ययाः भवन्ति, तथा धातुभ्योऽपि तिङः कृतश्चेति द्विविधा: प्रत्यया: । तेषु येषां विकरणमपेक्षितं ते सार्वधातुकसंज्ञाः कृताः; येषां तु विकरणम- नपेक्षितं ते आर्धधातुकसंज्ञा: । लिडाशीर्लिङौ वर्जयित्वा तिङः सर्वेऽपि सार्वधातुका: । कृत्सु भूयिष्ठा आर्धधातुका:; विरलास्तु सार्वधातुका: शकारेण अनुबन्धेन चिह्निताः । प्रक्रियार्थी पुनराचार्यो विर सार्वधातुकार्धधातुकभेदं करोति । तथा चात्र सूत्राणि- करणे

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१७५&oldid=347542" इत्यस्माद् प्रतिप्राप्तम्