एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६० लघुपाणिनी ये ४६३ । सार्वधातुकार्धधातुकयोः (गुणः) । (७-३-८४) सार्वधातुकार्धधातुकयोः पैरयोरिगन्तस्याङ्गस्य गुणः । इति ‘भू’ इतीगन्ताङ्गस्य गुणे भो + अ + ति–संधिकार्येण अवादेशेन भवति इति रूपसिद्धिः । एवमेव भवतः इति च । बहुवचने भू + अ झि इति स्थितम् ।। ४६४ । झोऽन्तः (प्रत्ययादेः) । (७-१-३) प्रत्ययादिभूतस्य झस्य ‘अन्त्' इत्यादेशः खात् ॥ ४६५ । अदद्भ्यस्तात् । (७-१-४) अभ्यस्तात्त धातोः परस्य झस्य अत् इत्येवादेशः ॥ ४६६ । आत्मनेपदेष्वनतः । (७-१-५) आत्मनेपदेषु (अनतः) अकारभिन्नात् वर्णात् परख च अत् इत्येवादेशः; अकारात्तु अन्त् इति । एवं च झकारोच्चारणम् अन्त्, अत् इत्यनयोरन्यतरस्य श्रवणार्थम् । अनेन प्रकृते झिप्रत्यय: 'अन्ति' इति रूपमापद्यते । भव + अन्ति इति स्थिते 'अतो गुणे' (३१३) इत्यनेन पररूपे कृते भवन्ति । भवसि, भवथः, भवथ ; 'भवमि इति स्थिते- " ४६७ । अतो दीर्घो यत्रि (सार्वधातुके) । (७-३-१०१) अदन्ताङ्गस्य दीर्घः स्यात् यत्रादौ सार्वधातुके परे । इति दीर्घः, भवामि, भवावः, भवामः इति रूपाणि ॥ सं भवति तौ भवतः ते भवन्ति [भूवादिगण: त्वं भवसि युवां भवथः यूयं भवथ इति समानाधिकरणस्य कर्तुरनुरोधेन प्रयोगः ॥ अहं आवां वयं भवामि भवावः भवामः १. इक एव हि गुणवृद्ध्योर्योग्यता । अतो गुणवृद्धिविधौ विशेषनिर्देशाभावे ‘इकः’ इति स्थानी योग्यतया स्वयमुपतिष्ठते । परिभाषितं चाचार्येण - 'इको गुणवृद्धी' SELE (१-१-३) इति । एवम् इकः इति लब्धम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१७९&oldid=347546" इत्यस्माद् प्रतिप्राप्तम्