एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीरस्तु ॥
॥ लघुपाणिनीयम् ॥

भूमिका ।


व्याकरणदुर्गमार्गेष्वप्रौढान् बालकान् प्रचारयितुम् ।
लघुपाणिनीयमेतत् प्रणीयते राजराजेन ॥

 अत्र किल भगवानाचार्यः पाणिनिर्महेश्वरप्रसादादधिगत्य शब्दविद्यारहस्यं वैदिकलौकिकभेदेन द्विविधायाः संस्कृतभाषाया व्याकरणं प्रणिनाय । तस्य च सूत्राणां किंचिदूनैश्चतुर्भिः सहस्रैरुपकल्पितोऽष्टभिरध्यायैः परिच्छिन्नत्वादष्टाध्यायीति शब्दित: सूत्रपाठः शरीरम् । गणपाठः, धातुपाठः, अक्षरसमाम्नायः, शिक्षा, लिङ्गानुशासनम् - इति पञ्चाङ्गानि ॥

'अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् ।
अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥'

इत्युक्तलक्षणैः सूत्रैः प्रायशः प्रत्ययः, आदेशः, आगम इति त्रिधा भिन्नानि व्याकरणकार्याण्यनुशास्त्याचार्य: । पृथक्प्रयोगानर्हं परसंसर्गेणार्थप्रत्यायकमक्षरम् (अक्षरसमुदायो वा) प्रत्यय इत्युच्यते । यस्मिञ्छब्दे प्रत्ययः संसृज्यते, सा प्रकृतिः । यथा - 'घटत्वम्' इत्यत्र घटशब्दः प्रकृतिः, ‘त्व' इत्यक्षरं प्रत्ययः । स्थितं वर्णमपनीय तत्स्थाने विहितमक्षरम् (अक्षर-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१८&oldid=351494" इत्यस्माद् प्रतिप्राप्तम्