एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४ लघुपाणिनीये ४८४ । एत ऐ । (३-४-९३) लोड्डुत्तमस्य एकारस्य ऐकार: आदेश: । अयमात्मनेपद एव संभवति । एवं च ' आमेतः' इत्यादिभिश्चतुर्भिः सूत्रैः आत्मनेपदलोट एते आदेशाः साधिताः— ताम् आताम् झाम् | स्व आथाम् ध्वम् | ऐ आवहै आमहै । सुखार्थमंत्र कारिका – तामातां झां लोट्प्रथमः, स्वाथांध्वमिति मध्यमः । ऐ आवहै आमहै इत्युत्तमश्चात्मनेपदे ॥ [भूवादिगण: परस्मैपदेऽपि लङादेशानुक्त्वा कारिकां करिष्यामः ॥ ४८५ । 'नित्यं ङितः (स उत्तमस्य लोपः) । (३-४-९९) ङिल्लकारस्य य उत्तमपुरुषस्तस्य सस्य लोप: स्यात् । तथा च वसू = व ; मस् = म ॥ ४८६ | इतश्च । (३-४-१००) ङिल्लकाराणाम् इकारस्य च लोपः । तथा च ति = तू; झि=झू, सि = स् । मिपस्त्वादेशो वक्ष्यते- = ४८७ । तस्थस्थमिपां तां-तं-त-अमः । (३-४-१०१) ङिल्लकारस्यैव । तस् = ताम् ; थस् = तं ; थ = त ; मि = अम् । = एवं च परस्मैपदे लङ्लिङ्लुङ्लङामादेशा एते— ति = तू, तस् = ताम्, झि = झू; सि = स् थस् = तम्, थ = तं; - = - , मि = अम्, वस् = व, मसू = म । = - , अदतामन् प्रथमः स्यादसतमतेत्यत्र मध्यमः पुरुषः । अमवामोत्तम एवं ङित्सु परस्मैपदेऽत्पूर्वाः ॥ १. मध्ये सूत्रपञ्चकं लेट्कार्यविधायकमित्युपेक्षितम् । २. अदन्तविकरणस्थल एवं विकरणेन सह श्रूयत इत्येव । परमार्थतस्तु आद्यमकारं विना आदेशा इति पूर्वपट्टिकया सिद्धम् । परमार्थतस्तु आयमकारं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१८३&oldid=347550" इत्यस्माद् प्रतिप्राप्तम्