एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूवादिगण:] परिनिष्ठाकाण्डः । ‘लोटो लङ्वत्' (४७७) इत्युक्तेरुत्तमसकारलोपः, तान्तन्तामा- देशाश्च लोटोऽपि भवन्ति ; ‘एरु:' 'सेर्ह्यपिच्च' 'मेर्नि:' 'आडुत्तमस्य पिच्च' इति विशेषाश्च तस्य । एभिर्विधिभि: संपन्ना लोडादेशाः- - ति = तु, तस् = तां, झि = झु ; सि = हि, थस् = तम्, थ = त ; मि = आनि, वस् = आव, मस् = आम | तु-ताम्- अन्तु, हि-तं-त, आनि लोट्यावाम परे पदे ।। ४८८ । लिङः सीयुट् । (३-४-१०२) लिङादेशानां सीयुडागम: स्यात् । अयमात्मनेपदस्यैव । परस्मै- पदस्य तु अन्यो विधीयते- ४८९ । यासुद् परस्मैपदेषूदात्तो ङिच्च । (३-४-१०३) परस्मैपदलिङादेशानां यासुट् इत्यागमः, स च ङित् स्यात् । डित्त्वस्य गुणनिषेधादिः फलं वक्ष्यते – आदेशानप्युक्त्वा रूपाणि दर्शयिष्यामः ।। ४९० । किदाशिषि । (३-४-१०४) आशीरर्थकस्य लिङो यासुडागम: कित् स्यात्, न तु ङित् । 'वचिस्वपियजादीनां किति' (५१५) इति संप्रसारणं, ‘जाम्रोऽविचि- ण्णङित्सु' (७५४) इति गुणश्च कित्त्वस्य विशेषप्रयोजनम् । आगमस्य कित्त्वङित्त्वादिरतिदिष्ट आगमिन: प्रत्ययस्योपकरोति । आगमा हि प्रत्य- 4 - यानामवयवभूताः ॥ ४९१ । झस्य रन् । (३-४-१०५) ४९२ । इटोऽत् । (३-४-१०६) उभयमपि लिङ एव ।

४९३ । सुद् तिथोः । (३-४-१०७)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१८४&oldid=347551" इत्यस्माद् प्रतिप्राप्तम्