एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूवादिगण:] यास् त् = (यात् ) यास्तां यासुस् परिनिष्ठाकाण्डः । यात् यातां युस यास्स् यास् यास्तम् यास्त यास् यातम् यात लिङो डिल्लकारत्वात् 'तस्थस्थमिपां तान्तन्ताम:', उत्तमस्य सलोपश्च । झेर्जुसादेश उत्तरसूत्रेण । अत्र 'यास्त्' इत्यत्र संयोगान्तलोपस्यापवादः संयोगादिलोपो भवति । तथा च सूत्रम् - = ४९५ । स्कोः संयोगाद्योरन्ते च । (झलि लोप:) । (८-२-२९) झलि परे पदान्ते च संयोगादिभूतयोः सकारककारयोर्लोपः स्यात् । इति सकारलोपेन 'यात्' इत्येव प्रथमपुरुषैकवचनम् || उभयोरपि पदयोरुक्ताः प्रत्ययाः आशीलिंङ एव; विधिलिङस्तु आगमानां सकारलोपः कथितः । तथा हि — ४९६ लिङः सलोपोऽनन्त्यस्य । (सार्वधातुके) । (७-२-७९) सार्वधातुकलिङः सकारस्य लोप: स्यात् ; न तु अन्त्यस्य (सका- रस्य) अनेन सार्वधातुकलिङि यासुट्सीयुट्युटां सकारा लुप्यन्ते । लुप्त- सकारा विधिलिङ्प्रत्यया:- परस्मैपदे । - यां याव याम यासम् यास्व यास्म ईत ईयातां ईरन् आत्मनेपदे । ईथास् ईयाथाम् ईध्वम् १६७ याद्यातां युस् प्रथमे यास्यातं यात मध्यमे पुरुषे । यां याव याम चान्त्ये विधिलिङ आशीर्लिङस्तु ससकाराः ॥ ईय ईवहि ईमहि १. अत्र यास्त् इति स्थिते हलः परत्वात् हल्झ्यादिलोपो नाशङ्कय: । आगम- प्रत्ययाङ्गत्वेन तिपोऽपृक्तत्वाभावात् । स २. विधिलिडेव सार्वधातुकलिङित्यप्युच्यते । 'लिङाशिषि' (४७२) इति आशी- लिंङ आर्धधातुकत्वं विहितम् । विध्यायर्थेषु तु लिङ् 'तिशित्सार्वधातुकम्' इति सार्वधातुकमेव । ३. (५०२) - तम सूत्रेणात्र पररूपे आकारलोपः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१८६&oldid=347553" इत्यस्माद् प्रतिप्राप्तम्