एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूवादिगण:] परिनिष्ठाकाण्डः । १६९ मध्ये सुदूरं विक्षिप्ताः स्मः । अथ प्रसक्तानुप्रसक्तान्निवृत्त्य मार्गमनुस- रामः । धातोरडागमेन मध्ये शपो विकरणप्रत्ययस्य प्रक्षेपेण च 'अभ- वति' इत्यवस्थामारूढायां रूपनिष्पत्तौ लङप्रक्रियामुज्झितवन्तो वयम् । ‘नित्यं ङितः' (४८५) 'इतश्च' ‘तस्थस्थमिपां तान्तन्तामः' इति त्रिभिः सूत्रैरुक्तेषु सलोप- इलोप-तान्तन्तामादेशेषु कृतेष्विष्टरूपसिद्धिः— अभवत् अभवताम् अभवन् अभवः अभवतम् अभवत; अभवम् अभवाव अभवाम | प्रथमपुरुषबहुवचने अभवन्ति = अभवन्त् = · अभवन् इति इलोपानन्तरं संयोगान्तलोप: । 'न माङयोगे' (४७०) इत्यडागमप्रतिषेधात् मास्म भवत्, मास्म भवताम् इत्यादीनि रूपाणि ।। = लोट् – शपगुणावादेशैः ‘भव' इति जाते अङ्गे, ४८७-तम- सूत्रनिरूपितानां तुतामन्तु इति प्रत्ययानां योगेन प्रथमपुरुषे रूप- सिद्धिः - भवतु भवतां भवन्तु, मध्यमे तु भव हि इति स्थिते अनु- पदमुच्यमानेन सूत्रेण हिलोपे – भव भवतं भवत । भवानि भवाव भवाम । अथ हिलोपं विद्धाति- - - ५०३ । अतो हे: (लुक्) । (६-४-१०५) अदन्तादङ्गात् परस्य हेर्लुक् स्यात् ॥ - ५०४ । उतश्च प्रत्ययादसंयोगपूर्वात् । (६-४-१०६) असंयोगपूर्वो य उकारस्तदन्तात् प्रत्ययात् परस्य च हेर्लुक् । = अनुविकरणा उविकरणाश्च धातवोऽत्रोदाहरणम् | सुनुहि = सुनु; कुरु- हि = कुरु इति । पूर्वसूत्रस्य शप् - श्यन्-शविकरणा उदाहरणम् एवं च हे: पञ्चसु विकरणेषु लोपस्य प्रसक्तिरस्ति । हिप्रसङ्गादन्योऽपि तस्य विकार उच्यते ॥ ५०५ । हुझल्भ्यो हेर्धिः । (६-४-१०१) १) जुहोतेर्झलन्तेभ्यश्च धातुभ्यो हेर्धिरादेशः । जुहुधि, अद्धि, रुन्धि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१८८&oldid=347555" इत्यस्माद् प्रतिप्राप्तम्