एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [भूवादिगण: इति लुक् - श्लु - विकरणा अस्योदाहरणम् । एवं च हे: लुक् धि इत्यादेशश्च भवतः ।। अथ प्रकृतस्य लोट: प्रथममध्यमैकवचनयोरर्थविशेषे रूपविशेष उच्यते । ‘आशिषि लिङ्लोटौ' (४३५) इति लिङ्लोटोराशीरर्थेऽपि प्रयोग उक्त: । तत्र आशिषि लिङ 'आर्धधातुकत्वात्' (४५२) लकारा- न्तरमिव सर्वत्र भिन्नरूपः; आशिषि लोटस्तु परस्मैपदे तुह्योः परं रूप- भेदः । तथा च सूत्रम् - ५०६ । तुह्योस्तातङाशिष्यन्यतरस्याम् । (७-१-३५) आशिषि ‘तु’ ‘हि' इति लोट्प्रथममध्य मैकवचनयोस्तातङ् इत्यादेशो वा । अनेकाल्त्वात् सर्वादेशः । ङित्त्वं तु गुणवृद्धिप्रतिषेधादि- कार्यान्तरविधानार्थकम् । “यद्यपि 'डिच्च' (३२) इत्ययमपवादस्तथा- प्यनन्यार्थङित्त्वेष्वनङादिषु चरितार्थ इति गुणवृद्धिप्रतिषेधसंप्रसारणाद्यर्थ- तया संभवत्प्रयोजनङकारे तातङि मन्थरं प्रवृत्तः परेण 'अनेकाल्शित्सर्व- स्य' (३८) इत्यनेन बाध्यते । इहोत्सर्गापवादयोरपि समबलत्वात्" । तातङि अकारो ङकारयोजनार्थक: ; 'तात्' इत्येवादेशस्वरूपम् । अनेन भवतु भवतात्, भव भवतात् इत्याशिषि रूपद्वयम् ॥ लिङ्— इलोप तान्तन्तामादेश - यासुडागम - सलोपै: 'यात् ' ‘ याताम्' इत्यादयः प्रत्ययाः । शप्-गुणावादेशा: 'भव' इति प्रकृति: । भव + यात् इति स्थिते ५०७ । अतो येयः (सार्वधातुकस्य) । (७-३-८०) अदन्ताङ्गात् परः सार्वधातुकावयवो 'या' इत्ययम् ‘इय्' इति भवति ; ‘या’ इत्यस्य इय् इत्यादेश इत्यर्थः ‘इयः' इत्यकार उच्चार- णार्थः । भव + इय्त् इति जाते 'लोपो व्योवेलि' (४९४) इति यलोपे भवेत् इति रूपसिद्धिः । उसि अमि च परं यकार: लुप्यते । भवेतां भवेयुः । भवेः भवेतं भवेत । भवेयं भवेव भवेम । श्रूयते

अन्यत्र
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१८९&oldid=347556" इत्यस्माद् प्रतिप्राप्तम्