एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूवादिगणः] परिनिष्ठाकाण्डः । धातोर्विहिताः कृत्स्नाः प्रत्यया व्याप्ताः । अतश्च इगन्तस्य हस्वेगुपान्त्य य च धातो: प्रत्ययमात्रे गुण इत्यायातम् । लघूपधस्येत्युक्तेरिगुपान्त्यस्य गुणस्तु दीर्घोपधस्य नेति भेदः ।। शोचतः शोचन्ति अशोचताम् अशोचन् शोचताम् शोचन्तु शोचताम् शोचेयुः ४. स्मृ स्मरणे । परस्मैपदी । स्मरतु । स्मरेत् । ५. वृतु वर्तने । अनुदात्तेत् । लट्— शोचति लङ्— अशोचत् लोट् — शोचतु, शोचतात् लिङ्— शोचेत् स्मरति । अस्मरत् । इत्यादि । ७. षह मर्षणे । अनुदात्तेत् । ५१२ । धात्वादेः षः सः । (६-१-६४) धात्वादेः षकारस्य सः स्यात् ।। "" वर्तत । अवर्तत । वर्तताम् । वर्तेत । ६. राज दीप्तौ । स्वरितेत् । स्वरितेत्त्वादुभयपदी । राजति -- राजते । अराजत्-अराजत । राजतु - राजताम् । राजेत् - राजेत । " ५१३ । णो नः । (६-१-६५) धात्वादेर्णकारस्य नकार: स्यात् । इह धात्वादिसकारस्य उप- सर्गस्थं निमित्तमादाय षत्वसाधनार्थ केचिद्धातवः षकारादयः पठ्यन्ते । षत्वं हि ‘आदेशप्रत्यययोः' इत्यधिकारात् आदेशस्य प्रत्ययावयवस्य वा परं भवतीत्यादेशत्वसंपादनाय षोपदेशतया पठित्वा पुनः षस्य सत्वं विधीयते । एवमेव 'उपसर्गादसमासेऽपि णोपदेशस्य' (३९८) इति व्यवस्थार्थ णकारादिः पाठः । एवञ्च षादिर्णादिश्च पाठो निमित्तसद्भावे पत्वणत्वयोर्ज्ञापनाय । उच्चारणशैथिल्येन धातुपाठस्याविश्वास्यत्वात् णोपदेशषोपदेशयोर्विवेकः क्रियते -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१९२&oldid=347559" इत्यस्माद् प्रतिप्राप्तम्