एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तुदादिगणः] परिनिष्ठाकाण्ड: । ५२२ । लभेश्च । (७-१-६४) पूर्ववदशब्लिटोरचि नुम् । यथा- (ण्डुलि) लम्भकः । शपि तु लभते । लिटि च लंभे । ५२३ । आङो यि । (७-१-६५) आङुपसृष्टस्य लभेर्यादौ प्रत्यये नुम् । यथा – आलम्भ्या बडवा । ५२४ । उपसर्गात् खल्घञोः । (७-१-६७) यथा – (खलि) सुप्रलंभ, दुष्प्रलंभ | (घञि) प्रलम्भः, विप्रलम्भः । उपसर्गाभावे तु– लाभः । - - ५२५ । न सुदुर्भ्या केवलाभ्याम् । (७-१-६८) यथा – सुलभं, दुर्लभम् । 'केवलाभ्याम्' इत्युक्तेः सुप्रलम्भम् । ४. कृ विक्षेपे । परस्मैपदी । कृ + अ + ति इति स्थिते विशेषविधिः- , ५२६ । ॠत इद्धातोः । (७-१-१००) ऋकारान्तस्य धातोरङ्गस्य इकारादेश: स्यात् । 'उरण् रपरः इति रपरोऽयं ‘इर्' इति भवति । 'सार्वधातुकार्धधातुकयोः' इति गुणः परत्वादिदं बाधते; अतः क्ङित्स्वेवास्यावकाशः । अनेन किरति, किरतः, किरन्ति इत्यादि । ५२७ । उपधायाश्च । (७-१-१०१) उपधायाश्च ऋकारस्य इत् । यथा - कृत-कीर्तयति । १७७ ५२८ । उदोष्ठ्यपूर्वस्य । (७-१-१०२) ओष्ठचवर्ण: पूर्वो यस्मात् स ओष्ठचपूर्वः । ओष्ठ चपूर्व - ऋकारा- न्तस्य तु धातोरङ्गस्य उत् । यथा- - पृ-पिपर्ति पिपूर्तः पिपुरति । (श्लुविकरणम्) मृ – मुमूर्षति (सनि दीर्घेण मृ इति भवति धातु ) - मृ

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१९६&oldid=347563" इत्यस्माद् प्रतिप्राप्तम्