एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिवादिगण:] परिनिष्ठाकाण्डः । यथा – मुर्च्छ – मूच्छितः । धुर्व धूर्वितः । वोपध उदाहार्यो नास्ति । इत्थं च वकारस्य 'हलि च' इति सूत्रे एव फलम् ॥ ५३३ । न भकुछुराम् । (८-२-७९) रेफवकारान्तस्य भस्य कुर्, छुर् इत्येतयोश्च दीर्घो न । यथा— - - धुर् + य = धुर्यः । कुर् + यान् = कुर्यात् । छुर् + शात् = छुर्यात् । हलि चेति दीर्घेण प्रकृते दीव्यति दीव्यतः दीव्यन्ति; अदीव्य न-दीव्यतु-दीव्येत् । २. शमु उपशमे । परस्मैपदी । शम्यति इति स्थिते दीर्घविधिः- शमु - शाम्यति तमु – ताम्यति ५३४ | शमामष्टानां दीर्घः श्यनि । (७-३-७४) शमादीनामष्टानां धातूनां दीर्घः श्यनि । यथा- दमु – दाम्यति - श्रमु – श्राम्यति - | भ्रमु – भ्राम्यति - क्षमु – क्षाम्यति - १७९ क्लमु – क्लाम्यति मदी - माद्यति ५३५ । ष्ठिवुक्लम्वाचमां शिति । (७-३-७५) एषां शित्प्रत्यये परे दीर्घः । यथा - - ष्ठिवु —ष्ठीवति । (शप् ) क्लमु – क्लामति । (शप् ) आचमु - आचामति (आङोऽभावे तु चमति) क्मधातोरनेनैव श्यन्यपि दीर्घे सिद्धे शमादौ पाठः कार्यान्तरार्थः । ५३६ । क्रमः परस्मैपदेषु (शिति) । (७-३-७६) क्रमधातोः परस्मैपदे शिति प्रत्यये दीर्घः । यथा- कामति – (शप् ) अक्रामत् – कामतु । प्रत्यु० – ('परस्मैपदेषु' किम् ?) आक्रमते सूर्यः । ५३७ । इषुगमियमां छः । (७-३.७७) १. शमित्यष्टाभ्यो घिनुणिति घिनुण् कार्यान्तरम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१९८&oldid=347565" इत्यस्माद् प्रतिप्राप्तम्