एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२ लघुपाणिनीये ५४२ । हुश्नुवोः सार्वधातुके । (६-४-८७) हुधातो: नुप्रत्ययान्तस्यानेकाचोऽसंयोगपूर्वस्याङ्गस्य च यण् स्यादजादौ सार्वधातुके । सुन्वन्ति । सुनोषि सुनुथः सुनुथ । सुनोमि । ५४३ । लोपश्चास्यान्यतरस्यां म्वोः । (६-४-१०७) अस्येत्यनेन ‘उतश्च प्रत्ययादसंयोगपूर्वात्' इति पूर्वसूत्रोक्तं परा- मृश्यते । असंयोगपूर्वो यः प्रत्ययोकारः तदन्तस्याङ्गस्य लोपो वा मकार- वकारयोः परयोः । अनेन सुन्वः-सुनुवः, सुन्म:- सुनुमः इति रूप- द्वयम् । सुनुते सुन्वाते । अदन्ताङ्गस्याभावात् झस्य अदादेशः । (४६६) सुन्वते । सुनुषे सुन्वाथे, सुनुध्वे । सुन्वे सुन्वहे, सुनुवहे सुन्महे, सुनुमहे ॥ उक्त उकारलोपः करोतौ नित्यो विधीयते- ५४४ । नित्यं करोतेः । (६-४-१०८) उत: प्रत्ययस्य असंयोगपूर्वस्य म्वोर्लोप उक्तः, करोतेर्विषये नित्यं स्यात् । यथा— कुर्व, कुर्मः । कुर्वहै, कुर्महे । ५४५ । ये च । (६-४-१०९) - यकारादौ प्रत्यये परे च करोतेरुक्तो लोपः । यथा— कुर्यात् ॥ ५४६ । अत उत् सार्वधातुके । (६-४-११०) उप्रत्ययान्तस्य करोतेरकारस्य स्थान उकार: स्यात् किङति सार्वधातुके । यथा— कुरुतः, कुर्वन्ति, कुर्यात् । अथ प्रकृतो धातुरुदाहियते - लङ्-असुनोत् असुनुत लोट् – सुनोतु असुनुताम् असुन्वाताम् सुनुतात् सुनु सुनुतात् । सुनवानि ॥ सुनुष्व । सुनवै लिड्— अदन्ताङ्गस्याभावात् इयादेशो न । सुनुयाताम् सुनुयात् [स्वादिगण: असुन्वन् । असुन्वत । सुनुताम् सुनुताम् सुनवावहै । सुन्वन्तु । सुन्वाताम् सुन्वताम् सुन्वीत सुनुयुः । सुन्वीयाताम्

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२०१&oldid=347569" इत्यस्माद् प्रतिप्राप्तम्