एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८४ लघुपाणिनीये [क्रयादिगण: च सूत्रं तस्मादेकेनैव सूत्रेणान्तरितम् । अतो मध्यगतमप्रकृतमपि तत् व्याख्यायैव प्रस्तुतोपयोगि सूत्रं व्याख्यास्यामः ।। ५४७ । नसोरल्लोपः । (६-४-१११) अम् इति विकरणप्रत्ययस्य असधातोश्च अकारस्य लोपः सार्व- धातुके किङति । भिनत्ति भिन्तः । अस्ति स्तः इति तत्तत्प्रकरणयो- रुदाहरिष्यामः ।। ५४८ । नाभ्यस्तयोरातः । (६-४-११२) श्रा इति विकरणप्रत्ययस्य अभ्यस्तानामङ्गानां च आकारस्य लोप: स्यात् सार्वधातुके किङति । अनेन प्रकृते (क्रीणा + तस् इत्यत्र) लोपे प्राप्ते तस्यापवाद:- - ५४९ । ई हल्यघोः । (६-४-११३) हलादौ तु सार्वधातुके क्ङिति श्राभ्यस्तयो रात ईत् । घुसंज्ञस्य त्वभ्यस्तस्य नेदमिति निषेधः । अतश्च श्राभ्यस्तयोराकारस्य अजादौ क्ङिति सार्वधातुके लोपः, हलादौ तु ईत्वमिति व्यवस्था । अनेन प्रकृते क्रीणीतः इति रूपसिद्धिः । अन्तीत्यजादौ प्रत्यये लोपः, क्रीणन्ति । क्रीणासि क्रीणीथः क्रीणीथ | क्रीणामि क्रीणीवः क्रीणीमः । एकवचनेषु तु ङित्त्वाभावादुभयमपि नास्ति । आत्मनेपदलटि सर्वत्र ङित्त्वाद्यथायथम् ईत्वलोपौ – क्रीणीते क्रीणाते क्रीणते; क्रीणीषे क्रीणाथे क्रीणीध्वे । क्रीणे क्रीणीवहे क्रीणीमहे । अक्रीणात् अक्रीणीताम् अक्रीणन् । अक्रीणीत अक्रीणाताम् अक्रीणत । क्रीणातु, क्रीणीतात् क्रीणीतां क्रीणन्तु | क्रीणीहि । क्रीणानि । क्रीणीतां क्रीणातां क्रीणतां । क्रीणीष्व । क्रीण क्रीणावहै । क्री- ॥ - न्यासुटो ङित्त्वात् सर्वत्र ईत्वम्। क्रीणीत क्रीणीयात क्रीणीरन् । ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२०३&oldid=347571" इत्यस्माद् प्रतिप्राप्तम्