एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये अदादिगणः । लुग्विकरणः । १. अद भक्षणे । परस्मैपदी । अत्ति अत्तः अदन्ति; अत्सि अत्थः अत्थ । अद्मि अद्वः अद्मः । लङि आद् + त् इति स्थिते वक्ष्यमाणेन ‘अदः सर्वेषाम्' (५७८) इति सूत्रेण प्रत्ययस्य अडागमे – आदत् आत्ताम् आदन् । पूर्ववदाडागमे आद: आत्तम् आत्त । आदम् आद्व आद्म | लोटि अत्तु अत्तात् अत्ताम् अदन्तु ; हेर्धि:- अद्धि । अदानि अदाव अदाम | लिङि अद्यात् अद्यात् अद्युः । - २. हन हिंसागत्योः । परस्मैपदी । हन्ति । हतः इति रूपसिद्ध्यर्थमनुनासिकलोप उच्यते- ५५९ । अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो १८८ (8) VIII. झलि क्ङिति । (६-४-३७) अनुदात्तोपदेशानां वनतेस्तनोत्यादीनां चानुनासिकलोप: स्यात् क्ङिति झलादौ प्रत्यये परे । अनुदात्तोपदेशेषु यम - रम- नम - गम - हन मन्यतय एवानुनासिकान्ताः । तनु - क्षणु - क्षिणु - ऋणु - तृणु - घृणु - वनु - मनु – इत्येते तनोत्यादयः । तस्थस्थानां ङित्त्वात् झलादित्वा- च्चानेन नकारलोपः, हतः हथः हथ । सिपि लोपस्यावकाशाभावान्नका- रस्यानुस्वारः, हंसि । उत्तमे तु न किश्चित्, हन्मि हन्वः हन्मः । झौ उपधालोप उच्यते- गम इन जन ५६० । गमहनजनखनघसां लोपः क्ङित्यनङि । (६-४-९८) अचि उपधाया इति चानुवर्तते । गमादीनामुपधाया लोप: स्यात् क्ङित्यजादौ प्रत्यये न त्वङि । यथा - । - धातुः-लिटि अतुस् उस् जग्मतुः जघ्नतुः जज्ञे प्रत्यु० - अङि तु—अगमत्, अघसत् । - - धातुः-लिटि अतुस चख्नतुः जक्षतुः जग्मुः जघ्नुः जज्ञाते [अदादिगणः खन घस - उस् चख्नुः जक्षुः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२०७&oldid=347576" इत्यस्माद् प्रतिप्राप्तम्