एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [अदादिगण: एवं स्वपिति, श्वसिति, अनिति, जक्षिति । 'जक्षित्यादयः षट्’ इत्यभ्यस्तत्वात् ‘अदभ्यस्तात्' (४६५) इति झेरदादेशः, जक्षति इति बहुवचनम् । ६. ईड स्तुतौ । ७. ईश ऐश्वर्ये । आत्मनेपदिनौ । १९० ५६५ । ईशः से । (७-२-७७) ५६६ । ईडजनोर्ध्वे च । (७-२-७८) ईड, ईश, जन एषां से ध्वे इति सार्वधातुकयोरिडागम: स्यात् । यथा- ईश– 'ईष्टे ईशाते ईशते ईशिषे - ईशिध्वे । ईड--. ईट्टे ईडाते ईडते इंडिषे ईडिध्वे । S जनधातोर्लुग्विकरणाभावात् छन्दस्येवोदाहरणम् । से ध्व इति विकृतनिर्देशात् लड्लोटोरेव इडागमः । ईशधातोरपि ध्वे प्रत्यये इट इष्टत्वात् 'ईशीडजनां सेध्वयोः इति सूत्रकरणमुचिततरमभविष्यत् । ८. यु मिश्रणामिश्रणयोः । परस्मैपदी । ५६७ । उतो वृद्धिलुकि हलि (सार्वधातुके पिति) । (७-३८९) उकारान्तस्याङ्गस्य वृद्धिः स्याल्लुकि सति हलादौ पिति सार्व- धातुके परे । यौति युतः युवन्ति । यौषि । यौमि । अयौत् । यौतु । युयात् । एवं णु स्तुतौ । इत्यादयः । ९. ऊर्जुन् आच्छादने । उभयपदी । ५६८ । ऊर्णोतेर्विभाषा । (७-३-९०) ऊर्णोतेर्हलि पिति सार्वधातुके वा वृद्धिः । ऊर्णौति, ऊर्णोति ऊर्णुतः ऊर्णुवन्ति ; ऊर्णौषि ऊर्णोषि; ऊर्णौमि ऊर्णोमि । ५६९ । गुणोऽपृक्ते । (७-३-९१) अपृक्ते हलि पिति सार्वधातुके ऊर्णोतेर्गुणः, न तु वृद्धिः । और्णोत् और्णुताम् और्णुवन् । और्णोः । ऊर्णोतु, ऊर्णोतु । ऊर्णुहि । ऊर्णवानि । ऊर्णुयात् । तङि ऊर्णुते । और्णुत ऊर्णुताम् ऊर्णुवीत । १. ‘ब्रश्चभ्रस्ज……....छशां षः' (६७) इति षत्वे कृते टुत्वम् २. 'खरि च' इति चर्स्वानन्तरं ष्टुत्वम् । लङि ऐष्ट ऐशाताम् ऐशत; ऐड ऐडाताम् । ऐशत;

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२०९&oldid=347578" इत्यस्माद् प्रतिप्राप्तम्