एतत् पृष्ठम् परिष्कृतम् अस्ति
लघुपाणिनीयम् ।


नाव्यवसायोऽयं, मन्ये, महाभाष्यादेवाधीत एभिः । भाष्यकारस्तावत् कमप्यर्थमादाय द्विसहस्रजिह्व इव सर्वतोमुखं प्रश्नसहस्रं प्रयुङ्क्ते; एकैकं स्वयं चोत्तरयति । तत्संरम्भेषु कदाचिद्वादकोलाहले कुमार्गेणापि संचरते । योऽयं प्रौढिवाद इति व्यपदिष्टः पन्था दुर्व्याख्यातृभिः शिष्यव्यामोहनाय स्वग्रन्थेषु निबध्यते । मार्गोऽयं सर्वथा कुमार्गो वा न वेति विचारो दूरे तावदास्ताम् ; बालशिक्षणार्थमुद्दिष्टेषु ग्रन्थेषु नैष मार्ग: शोभत इत्यत्र कस्य वा विप्रतिपत्ति: ? अतश्च ग्रन्थेऽस्मिन् सूत्राणि यथाश्रुतरीत्यैव व्याख्यायन्ते । तावतैव च तृप्यन्ति सुशब्दग्रहणमात्रदत्तदृष्टयो व्याकरणाध्यायिनः ॥

 लोकेऽस्मिन् पाणिनीयं तन्त्रमिव परिपूर्णं नास्त्येवान्यद्व्याकरणप्रस्थानमिति निर्विवादमेतत् ; तथापि तन्त्रमेतत् पथ्यमेरण्डतैलमिव बालेभ्यो न रोचते । तत्र गुडजिह्विकाप्रयोगार्थमस्माकमयमारम्भः । पाणिनीयं व्याकरणमिति श्रुत्वैव बाला यद् बिभ्यति, तत्र को हेतुरिति विमृशामः— पाणिनिस्तावत् संकेतजटिलै: सूत्रैर्व्यवहरति । संकेता: पुनस्तत्र तत्र विकीर्णाः परस्परसापेक्षाश्च । तथा हि —'वृद्धिरादैच्’ इति प्रथमं सूत्रं ‘वृद्धिः' ‘आत्' ‘ऐच्' इति त्रिभिः प्रथमान्तैः पदैर्घटितम् । अनेन आ, ऐ, औ इत्येषां वर्णानां वृद्धिरिति संज्ञा विधीयते । तत्र 'आत्' इत्यस्य आकार इत्यर्थं ग्रहीतुं 'तपरस्तत्कालस्य' इति वक्ष्यमाणस्य सूत्रस्यापेक्षास्ति । ‘ऐच्' इत्ययं शब्द ऐकारं औकारं च बोधयतीति ग्रहः ‘आदिरन्त्येन सहेता' इति सूत्रस्यार्थज्ञानेनैव भवति । तस्य च सूत्रस्यार्थग्रहो 'हलन्त्यम्' इति सूत्रान्तरेण विहितां संज्ञां अपेक्षते । 'हलन्त्यम्' इति सूत्रे च हल्पदं 'आदिरन्त्येन-' इत्यादिना सिद्धमिति परस्पराश्रयाद्व्याकुलीभावः । किं च पूर्वापेक्षया परस्य सूत्रस्य प्रामाण्यम्, कानिचित्सूत्राणि सूत्रान्तरापेक्षया असिद्धानि इत्यादीनां

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२१&oldid=351649" इत्यस्माद् प्रतिप्राप्तम्