एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अदादिगणः] परिनिष्ठाकाण्डः । ५७० । तृणह इम् । (७-३-९२) तृणह इति ‘तृह हिंसायाम्' इति रौधादिकस्य कृतश्नमो ग्रहणम् । तृणहू इत्यङ्गस्य इमागमो हलि पिति सार्वधातुके । तृह् + ति–श्नम्, तृणह् + ति— इमागमः, तृणेह् + ति ढत्वं, तृणेढ् + ति 'झषस्तथोर्धोऽध:' (५५६), तृणेढ् + घि–टुत्वं, तृणेढ़ + ढि–'ढो ढे लोप:' (७९) तृणेढि । तृण्ढः बृंहन्ति । तृणेक्षि | तृणेमिः तुंह्मः । अतृणेद् । तृणेदु, तृण्डात् } तृण्ढि | तृणहानि तृणहाव । तुंह्यात् तृह्याताम् । इत्यादि । रुधादावु- दाहर्तव्यो धातुः सूत्रक्रमानुरोधादत्तोपात्तः ।। १९१ १०. ब्रूज् व्यक्तायां वाचि । उभयपदी । ५७१ । ब्रुव ईद । (७-३-९३) ब्रू इत्यस्य हलादेः पितः सार्वधातुकस्य ईडागमः ॥ ब्रवीति ब्रूतः ब्रुवन्ति । ब्रवीषि । ब्रवीमि । ‘ब्रुवः पञ्चानां.... (४७६) इति प्रथमतः पञ्चानां वचनानाम् आहादेशसंनियोगेन णलतुसुस्थलथुसादेशा उक्ताः । तेन— 9 आह आहतुः आहुः । थलि - ५७२ । आहस्थः (थलि) । (८-२-३५) इति सूत्रेण थकारेऽन्तादेशे कृते चर्तेन तकारः । आत्थं आहथुः । शेषे ब्रूथ | ब्रवीमि ब्रूवः ब्रूमः इत्येकमेव रूपम् । ताङि ब्रूते ब्रुवाते ब्रुवते इत्यादि । लङ अब्रवीत् अब्रूत । लोटि ब्रवीतु ब्रूताम् । 'हलादेः पितः' इत्युक्तेः ब्रवाणि ब्रवाव | ब्रवै ब्रवावहै । लिङि ब्रूयात् ब्रुवीत ॥ 6 . [५७३ | यङो वा । (७-३-९४) यडः परस्य हलादेः पितः सार्वधातुकस्य ईडागमो वा । उदाह- रणं – यङन्तप्रक्रियायाम् ॥]

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२१०&oldid=347579" इत्यस्माद् प्रतिप्राप्तम्