एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४ लघुपाणिनीये [अदादिगण: जागृहि । जागराणि । जागराव । लिङि – जागृयात् जागृयातां जागृयुः । अव 'जुसि च' इति विहितो गुणो यासुटो ङित्त्वान्न भवति । इह हि 'सार्वधातुकमपित्' इति ङित्त्वेन निषिद्धं गुणं विधातुं किल 'जुसि च' इति गुण आरभ्यते । लिङो झेर्जुसस्तु अपित्सार्वधातुकत्वेन यासुड्योगेन च द्विगुणमस्ति ङित्त्वम् । अतः प्रथममेव ङित्त्वं बाधितुं अपवादो 'जुसि च' इति गुणः शक्नोति, न तु यासुट्प्रयुक्तं द्वितीयमपि । एवं ‘जाग्रोऽविचिण्णङित्सु' इति विशेषविहितो जागर्तेर्गुणोऽपि यासुटो ङित्त्वात् लिङि न भवति ॥ १६. दरिद्रा दुर्गतौ । परस्मैपदी । दरिद्राति 'इद्दरिद्रस्य' (५५०) इति हलादौ क्ङिति सार्वधातुके इदादेशः । ‘श्नाभ्यस्तयोरातः' (५४८) इति अजादौ लोपः, दरिद्रितः दरिद्रति । लङि - अदरिद्रात् अदरिद्विताम् अदरिदुः । लिङि–दरिद्रियात् । 6 १७. चकासृ दीप्तौ । परस्मैपदी । चकास्ति चकास्तः चकासति । चकास्सि चकास्थः इत्यादि । लङि- हल्ङयादिलोपे अचकाः इति रूपे प्राप्ते दत्वं विधीयते - ५८० । तिप्यनस्तेः (दस्स:) । (८-२.७३) तिपि परे पदान्तस्य सस्य दः स्यात् न त्वस्तेः ॥ अचकात्, अचकाद् । अचकास्ताम्, अचकासुः । ५८१ । सिपि धातो रुर्वा । (८-२-७४) सिपि परे पदान्तस्य सस्य वा रुः । पक्षे दः ।। अचकात्, अचकादू, अचकाः । ५८२ | द । (८-२-७५) सिपि परे पदान्तस्य दस्य रुर्वा । यथा- - विद ज्ञाने– अवेः अवेत् त्वम् । भिद - अभिनः अभिनत् त्वम् । तक भव्याख्यातुन १. जुसि गुणे यासुटि प्रतिषेधो वक्तव्यः इति वार्त्तिक काशिकायामुक्तः । याख्यातुमयमुपायः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२१३&oldid=347582" इत्यस्माद् प्रतिप्राप्तम्