एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिनिष्ठाकाण्डः । १८. शासु अनुशिष्टौ । परस्मैपदी । शास्ति । हलादौ किङति विशेषो विधीयते- अदादिगण:] १९५ ५८३ । शास इदङ्हलो: (किङति) । (६-४-३४) शास्तेरुपधाया इत् स्यात् अङि हलादौ किङति च । इति इत्वे निमित्तसद्भावात् ‘शासिवसि ' (३७६) इति षत्वम् । शिष्टः शासति, शास्सि शिष्टः इत्यादि । लङि–'तिप्यनस्ते:' (५८०) इति दत्वम् - । अशात् अशिष्टाम् अशासुः । अशा: अशात् अशिष्टम् इत्यादि । लोटि-शास्तु शिष्टात्, शिष्टां शासतु । ५८४ | शा हौ । (६-४-३५) । शास्तेः शादेशो हौ परे । शादेशस्यास्य असिद्धत्वेन झलन्तत्वस्य अक्षतेः ‘हुझल्भ्यो हेर्धिः' इति धिः । शाधि इति रूपं सिद्ध्यति ॥ शासानि शासाव शासाम । (लिङि) शिष्यात् शिष्यातां शिष्युः इत्यादि । अथ षष्टाध्यायगतस्यास्य शादेशस्य कीदृशमसिद्धत्वम्- - ५८५ । असिद्धवदत्राभात् । (६-४-२२) (आ भात्) 'भस्य' (६-४-१२९) इति सूत्रपर्यन्तम् । तद- न्तर्गतो विधिरिति यावत् । सः असिद्ध इव स्यात् । कुत्रेत्युच्यते- अत्रेति । अत्र - इतः प्रभृति भस्येत्यवध्यन्तर्गतेष्वेव विधिषु कर्तव्येषु । आभादित्यवधिनिर्देशमवष्टभ्य तत्र भवाः विधय आभीया उच्यन्ते । एवं च आभीयो विधिराभीयं विधिमुद्दिश्यासिद्ध इति फलितम् । असिद्धवद्भावश्च विधीनां विषयसाम्य एव सप्रयोजनः स्यात् । अतः आभीयो विधिः समानाश्रये आभीय एव विधौ कर्तव्ये असिद्धः स्यादिति सङ्केतस्वरूपम् । आभीयविधीनां परस्परमसिद्धत्वात् कृतेऽप्यादेशे स्था- निप्रयुक्तो विधिः प्रवर्तते, न प्रवर्तते चादेशप्रयुक्तो विधिः । सङ्केतस्यास्य प्रधानप्रयोजनान्युदाहरिष्यामः- विधिः । तस्य

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२१४&oldid=347583" इत्यस्माद् प्रतिप्राप्तम्