एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अदादिगण:] परिनिष्ठाकाण्डः । कुरुतात्, विदांकुरुतां विदांकुर्वन्तु इत्यादीनि अनुप्रयोगरूपाण्यपि लिट्याम्प्रकरणे वक्ष्यन्ते । लिङि–विद्यात् विद्यातां विद्युः इत्यादि । संपूर्वकस्यास्य आत्मनेपदित्वात् आत्मनेपदे विशेष उच्यते— ५८८ । वेत्तेर्विभाषा । (७-१-७) वेत्तेर्झदेशस्य अतो वा रुडागमः । यथा - संवित्ते संविदाते संविद्वते । (लङि) समविद्रत । (लोटि) संविद्रताम् । इत्यपि रूपाणि । २१. इण् गतौ । परस्मैपदी । एति, इतः । अनेकाच्त्वाभावात् अप्राप्तो यण् विधीयते- ५८९ । इणो यण् (अचि) । (६-४-८१) अजादौ प्रत्यये परे इण्धातोर्यण् ॥ यन्ति । एषि इथ: इथ | एमि इवः इमः । ऐत् ऐताम् आयन् । एतु इतात् इतां यन्तु । इहि । अयानि । इयात् इयाताम् । २२. इङ् अध्ययने । आत्मनेपदी । अयम् अधिपूर्व एव प्रयुज्यते ॥ 1 अधीते अधीयाते अधीयते । अध्यैत । (परत्वात् पूर्वमियङि इयाताम् इति जाते आट् वृद्धिश्च) अध्यैयाताम् । अध्यैयत । अध्यैथाः अध्यैयाथाम् अध्यैध्वम् । अध्यैयि । अधीताम् । अधीयीत अधीयीयाताम् । अधीयीय । २३. या प्रापणे । परस्मैपदी । याति, यातः यान्ति । अयात् अयाताम्-- 'लङ: शाकटायनस्यैव' (५००) इति झेर्वा जुस् । अयुः अयान् । एवमन्येषामपि आदन्तानाम् || स्ना — अस्नुः अस्नान् । भा - अभुः अभान् । वा–अवुः अवान् । २४. मृजू शुद्धौ । परस्मैपदी । ५९० । मृजेरृद्धिः । (७-२-११४) मृजधातोरिको वृद्धिः प्रत्यये परे ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२१६&oldid=347585" इत्यस्माद् प्रतिप्राप्तम्