एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [अदादिगण: मार्ज् + ति–' ब्रश्चभ्रस्जसृजमृज.. .' (६७) इति षः । ष्टुत्वं माष्र्ष्टि, मृष्टः। ‘क्ङित्त्यजादौ वेष्यते' इति भाष्यात् मृजन्ति, मार्जन्ति । ‘षढो: कस्सि' मार्क्षि, मृष्ठः, मृष्ठ । मार्जिम, मृज्वः, मृज्मः ॥ लङि—हल्ङयादिलोपेन अमार्ज् इति स्थिते १९८ ..... ५९१ । रात्सस्य (संयोगान्तस्य लोपः) । (८-२-२४) रेफात् परस्य सस्यैव संयोगान्तलोपः । इति नियमात् संयोगान्त- लोपो न भवति । जश्त्वचर्वे- अमार्ट् अमृष्टाम् अमृजन्, अमार्जन् इत्यादि । (लोटि) मार्छु । मृड्ढि। मार्जा- नि मार्जाव मार्जाम । मृज्यात् । २५. वश इच्छायाम् । परस्मैपदी । ब्रश्चादिषत्वं, ‘ग्रहिज्यावयि' (५१६) इति ङित्सु संप्रसा- रणं च ॥ वष्टि उष्टः उशन्ति । क्षि । अवटू औष्टाम् औशन् । अवशम् । वष्टु । उड्ढि । वशानि । २६. लिह आस्वादने । उभयपदी । लेह् + ति— ढत्वं, लेढ् + ति–'झषस्तथोर्धोऽधः' लेड् + धि – टुत्वं, लेड् + ढि–ढलोपः,–लेढि । ठूलोपे दीर्घः, – लीढः लिहन्ति । ‘षढोः कस्सि' लेक्षि । तङि—लीढे, लिहाते लिहते । लि । अट्-- अलीढ । लेढु । लीढि, लेहानि । लीढाम् । लिक्ष्त्र । लेहै । लिह्यात् – लिहीत । - २७. दुह प्रपूरणे । उभयपदी । दादेर्धातोर्घः' (६४) ‘झषस्तथोर्थोऽध:', झलां जश्झशि' इति घत्व-धत्व-जश्त्वानि ॥ दोग्धि दुग्धः दुहन्ति । ‘ भष्भाव:' (६८) धोक्षि दुग्धः दुग्ध । दोह्मि दुह्वः दुह्मः । दुग्धे दुइाते दुहते । धुक्षे दुहाथे धुग्ध्वे । अधोक्-अदुग्ध । दोग्धु-दुग्धाम् । दुह्यात् - दुहीत । 6

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२१७&oldid=347586" इत्यस्माद् प्रतिप्राप्तम्