एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अदादिगण:] परिनिष्ठाकाण्डः । १९९ अस्तिसिचोऽपृक्ते' (५७५) इति सूत्रस्य व्याख्याने असधातो- लैङि तिप्सिपोरेव रूपाण्युक्तानि । रूपशेषकथनं तत्र व्याक्षिप्तमधुना क्रियते - ८ ‘श्नसोरल्लोप:' (५४७) इति ङित्स्वल्लोपः । अस्ति स्तः सन्ति । अस्सि इति स्थिते सलोपः । तथा हि — ५९२ । तासस्त्योर्लोप: (सस्य) । (७-४-५०) तासेरस्तेश्च सकारस्य लोप: स्यात् सकारादौ प्रत्यये परे । तास् इति लुटः शाश्वतो विकरणप्रत्ययः । यथा -- - तास् — भवितास्सि भवितासि । अस्—अस् + सि = असि । ५९३ । रिच । (७-४-५१) रेफादौ प्रत्यये च तासस्त्योः सलोपः । यथा- - - = तास् –भवितास् + रौ = भवितारौ । अस्तेश्छन्दस्येवोदाहरणम् । ५९४ । ह एति । (७-४-५२) एति तु परे तासस्त्योः सय हः । यथा - - तास्—एधितास् + ए = एधिताहे । अस्–व्यतिस् + ए = व्यतिहे । प्रकरणपूर्त्यर्थ सूत्रद्वय मत्रैव व्याख्यातम् । असिस्थः स्थ । अस्मि स्वः स्मः । लङि—आसीत् । श्नसोरल्लोपस्या- भीयत्वेनासिद्धत्वात् अजादित्वस्य न हानिरित्याडागमः, आस्ताम् आसन् । आसीः आस्तम् आस्त । आसम् आस्व आस्म । लोटि-अस्तु, स्तात् स्तां सन्तु। अस् + हि इत्यत्र हेर्डित्वादल्लोपे सकारस्य एत्वमुच्यते- ५९५ । ध्वसोरेद्धावभ्यासलोपश्च । (६-४-११९) घु इति दा-धा-रूपयोर्धात्वोः संज्ञा । दा-धा-धात्वारस्तेश्च एकारो- ऽन्तादेशो हौ परे, अभ्यासोऽस्ति चेत् तस्य लोपश्च । इति सकारस्य एकारः । तस्य चाभीयत्वेनासिद्धत्वात् 'हुझल्भ्यो हेर्धिः', एधि, स्तात् स्तं स्त । असानि असाव असाम । लिङि यासुटो ङित्त्वात् सर्वत्राल्लोपः, स्यात् स्यातां स्युः । स्याः स्यातं स्यात । स्यां स्याव स्याम ॥ १

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२१८&oldid=347587" इत्यस्माद् प्रतिप्राप्तम्