एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये ६०२ । लिटि धातोरनभ्यासस्य । (६-१-८) लिटि परे अनभ्यासधात्ववयवस्य प्रथमस्यैकाचो द्वे स्तः, द्वितीयस्य | यथा— जप् – जजाप । दह्— ददाह । सद्— ससाद । एकं निमित्तमाश्रित्य सकृत् कृतद्वित्वस्य धातोः अन्यं निमित्तमाश्रित्य पुनर्द्वत्वं मा भूदिति 'अनभ्यासस्य' इति चाधिक्रियते । अतश्च जुगुप्सते, चिकित्सति इति स्वार्थसन्नन्ताभ्यां गुपकितधातुभ्यां पुन- रिच्छार्थके सनि द्वित्वं न स्यात् । जुगुप्सिषते, चिकिप्सिषतीत्येव रूपम् । एवं सन्नन्ताद्यङन्ताद्वा णिचि चङि कृतेऽपि पुनर्द्वित्वस्यावकाशोऽस्ति ।। ६०३ । सन्योः । (६-१-९) षष्ठचन्तमेतत् । सन्नन्तस्य यङन्तस्य चानभ्यासस्य धातोरवय- वस्य प्रथमस्यैकाचो द्वे स्तः, अजादेस्तु द्वितीयस्य । यथा— पच–सन्—–पिपक्षति । यङ् – पापच्यते । ६०४ । श्लौ । (६-१-१०) श्लौ कृते च पूर्ववद्वे स्तः । यथा — हु— जुहोति । दा - ददाति । ६०५ । चङि । (६-१-११) चङि परेऽपि पूर्ववद्वे स्तः । यथा - - चुर — अचूचुरत् । दह-अदीदहत् । अथाभ्यासविकारा उच्यन्ते- २०२ [जुहोत्यादिगण: ६०६ । ह्रस्वः (अभ्यासस्य) । (७-४-५९) अभ्यासस्वरस्य ह्रस्व: स्यात् । यथा - दा- ददाति । नी - निनाय । सू–सुषुवे । अजादेस्तु ६०७ । हलादिः शेषः । (७-४-६०) अभ्यासस्यादिईल चेत् स शिष्यते । अन्ये लुप्यन्ते || पठ्-पपाठ । अत्र ठकारस्य लोपः । व्रज - वव्राज | रेफजकारयोर्लोपः । व्रश्च – वव्रुश्च । अत्र रेफशकारचकाराणां लोपः । लोप: F

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२२१&oldid=347590" इत्यस्माद् प्रतिप्राप्तम्