एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जुहोत्यादिगण:] परिनिष्ठाकाण्ड: । २०३ अजादेरेकाचो धातोर्द्वितीयैकाचोऽभावात् प्रथमस्यैव द्वित्वम् । आदेईलोऽसम्भवात् सर्वे हलो लुप्यन्ते । तथा च अटधातोर्लिटि परे द्वित्वे अ अट् = आट | यङन्तत्वेन द्वित्वे तु द्वितीयस्यैकाचः सत्वात् अट्य = अट्यट्य । आदिहलू टकारः शिष्यते, अटट्य (= अटाट्या) | ६०८ । शर्पूर्वाः खयः । (७-४-६१) = शर्, पूर्वो येभ्यः ते खय एव शिष्यन्ते, न तु शर् । खराति- खराभ्यामनुगतेन ऊष्मणा चेद्धातुरारभते तर्हि खरातिखरावेव शिष्येते, न तु आदिरूष्मा इत्यर्थः । यथा- स्तन्-तस्तान । इच्युत्-चुश्च्युते । स्पन्द्-पस्पन्दे । ष्टिव्-ठिष्ठेव (टिष्टेव)। ६०९ । कुहोचुः । (७-४-६२) - अभ्यासस्य कवर्गहकारयोश्चवर्ग आदेश: स्यात् । यथा- कम्-चकमे । हु-जुहोति । गम्- जगाम । ‘अभ्यासे चर्च' (१११) इति पूर्वमेव व्याख्यातम् । तेन अभ्यासे झशां जशः, खरां चरश्च भवन्ति । यथा- - फफाल = पफाल । थस्थौ भभूव = बभूव । = धधौ = दधौ । = = तस्थौ । झघान = जघान । हकारस्यान्तरतम्यात् झकार: चवर्गः । तस्य जश्त्वेन जकारः, जुहोति ॥ हलादिशेषेण अकार एव शिष्यते । यथा- वृत्–ववृते । कृ-कक्रे = चक्रे | हृ-ततार | = ६१० । उरत् । (७-४-६६) अभ्यास - ऋवर्णस्य अकार: स्यात् । अकारादेशस्य रपरत्वेऽपि ६११ । द्युतिस्वाप्योः संप्रसारणम् । (७-४-६७) अनयोरभ्यासस्य संप्रसारणम् । यथा–युत-दिद्युते । स्वापि - सुष्वापयिषति । ६१२ । व्यथो लिटि । (७-४-६८) व्यथेर्लिग्निमित्तकाभ्यासे संप्रसारणम् । यथा - व्यथ- —विव्यथे । यङि तु, वाव्यथ्यते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२२२&oldid=347591" इत्यस्माद् प्रतिप्राप्तम्