एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [जुहोत्यादिगण: ६१३ । दीर्घ इणः किति । (७-४-६९) इण्धातोरभ्यासस्य दीर्घः किति लिटि । यथा - [इयाय] ईयतु, ईयुः । ६१४ । अत आदे: । (७-४-७०) अभ्यासस्यादेरकारस्य दीर्घः स्याल्लिटि । 'अतो गुणे' इति पर- रूपस्यायमपवादः । यथा – अट–अ अट = आट । २०४ ६१५ । तस्मान्नुड् द्विहलः । (७-४-७१) कृतदीर्घात् अभ्यासाकारात् परस्य द्विद्दल उत्तरखण्डस्य नुडा- गमः । यथा- अर्च्—अ अर्च्—आ अर्च् = आनर्च् । अञ्ज् -- अ अञ्जु—आ अञ्ज्-आनञ्ज् । प्रत्यु० – ('द्विहलः' किम् ? ) अट्—आट् । - - ६१६ | अश्नोतेश्च । (७-४-७२) अश्नोतेश्च दीर्घीभूतादकारात् परस्योत्तरखण्डस्य नुट् । यथा- अशु व्याप्तौ — आनशे । 'अश्नोतेः' इति इनुविकरणग्रहणादश्नातेः, भक्षणे' इत्यस्य आश, आशतुः इत्येव । - ६१७ । भवतेरः । (७-४-७३) भवतेरभ्यासस्य अकारः स्याल्लिटि । यथा–बभूव । अन्यत्र बुभूषति, बोभूयते । ६१८ । निजां त्रयाणां गुणः लौ । (७-४-७५) निजिर्, विजिर्, विष् एषामभ्यासस्य गुणः श्लौ । यथा— नेनेति । वेवेक्ति । वेवेष्टि । अन्यत्र —निनेज | श्लावित्येव । 'अश ६१९ । भृञामित् । (७-४-७६) भृणां त्रयाणां – भृज् भरणे, माङ् माने, ओ हा गतौ – इत्येतेषामभ्यासस्य इकारः लौ । यथा – बिभर्ति | मिमीते । जिहीते । अन्यत्र - -बभार इत्यादि । ६२० । अर्तिपिपर्त्यांश्च । (७-४-७७) ऋ — इयर्ति । पृ-पिपर्ति । [६२१ । सन्यतः । (७-४-७९) सनि परे अदन्तस्याभ्यासस्य इकारः । यथा— पच – पिपक्षति । यज्– यियक्षति । स्था—तिष्ठासति । पा–पिपासति । अन्यत्र – पपाच, ययाच, तस्थौ, पपौ इत्यादि । वसति

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२२३&oldid=347592" इत्यस्माद् प्रतिप्राप्तम्