एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०६ लघुपाणिनीये ६२८ | चरफलोश्च । (७-४-८७) नुक् । यथा—–चञ्चूर्यते । चञ्चुरीति । पम्फुल्यते । पम्फुलीति । [जुहोत्यादिगण: ६२९ । उत् परस्यातः । (७-४-८८) चरफलोरभ्यासात् परस्य अत उत् यङचङ्लुकोः । तथैवोदाहृतं च । ६३० । ति च । (७-४-८९) तकारादौ प्रत्यये परे चरफलोरकारस्य उत् । यथा - क्तिन्प्रत्यये –चूर्तिः, फुल्लिः । ६३१ । रीगृदुपधस्य च । (७-४-९०) ऋदुपधस्याङ्गस्य योऽभ्यासः तस्य रीगागमो यङचङ्लुकोः । यथा – वृत् - वरीवृत्यते । वरीवृतीति । ६३२ । रुग्रिको च लुकि । (७-४-९१) यङ्लुकि ऋदुपधाभ्यासस्य रुक्, रिक्, रीक् च स्युः । यथा— नृत् -- नर्नर्ति । नरिनर्ति । नरीनर्ति । रुगागमे उकार इत् । रिग्रीकोस्तु इकार-ईकारौ नेतौ ॥ ६३३ । ऋतश्च । (७-४-९२) ऋकारान्तस्य चाङ्गस्य योऽभ्यासस्तस्य रिग्रीकौ रुक् च यङ्लुकि । यथा—–— चर्ति । चरिकर्ति । चरीकर्ति । ६३४ | सन्वल्लघुनि चङ्परेऽनग्लोपे । (७-४-९३) • लघुनि धात्वक्षरे परे योऽभ्यासः तस्य चपरे, णौ परे सनीव कार्ये स्यात् अग्लोपाभावे । 'सन्यत:' (६२१) 'ओ: पुयण्ज्यपरे' (६२२) इति अकार-उवर्णयोः विहितं च कार्य इत्वम् । तत् चपरे णावपि भवतीत्यर्थः । यथा- 1- कृ – अचीकरत् । पू—अपीपवत् । पच-अपीपचत् । लू – अलीलवत् । प्रत्यु० – ('लघुनि' किम् ? ) रक्ष–अररक्षत् | जागृ – अजजागर्त् । ('अनग्लोपे' किम् ? ) कथ– अचकथत् । इदमुत्तरसूत्रं च चप्रकरणे स्पष्टीभविष्यति ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२२५&oldid=347594" इत्यस्माद् प्रतिप्राप्तम्