एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिनिष्ठाकाण्डः । ६३५ । दीर्घो लघोः । (७-४-९४) लघोरभ्यासस्य दीर्घ: स्यात् सन्वद्भावविषये । सदीर्घमेवो- जुहोत्यादिगण: j दाहृतम् ।। ६३६ । अत्स्मृदृत्वरप्रथम्रदस्तृस्पशाम् । (७-४-९५) एषामभ्यासस्य अत् इत्यादेशः स्यात् चपरे णौ परे । यथा - स्मृ - असस्मरत् । त्वर - - अतत्वरत् इत्यादि । इत्वबाधनार्थ अत्त्वं विधीयते । - ६३७ । विभाषा वेष्टिचेष्टयोः । (७-४-९६) यथा - अविवेष्टत्, अववेष्टत् । अचिचेष्टत्, अचचेष्टत् । ६३८ । ई च गणः । (७-४-९७) यथा – अजीगणत्, अजगणत् । ] लौ द्वित्वप्रसङ्गात् द्वित्वप्रकरणमत्रोपक्षिप्तम् । अथ प्रकृतानि हुधातो- लेड।दिषु रूपाण्युच्यन्ते- शप: लौ द्वित्वमभ्यासकार्य (चुत्वजश्त्वे) च, जुहु इति प्रकृ- तिर्जायते । पित्सु गुणः, जुहोति जुहुतः । 'अदभ्यस्तात्' (४६५) इत्यदादेशः, ‘हुश्नुवो: सार्वधातुके' (५४२) इति यण्, जुवति जुहोषि इत्यादि । अजुहोत् अजुहुताम् । 'सिजभ्यस्तविदिभ्यश्च' (४९८) इति झेर्जुस्, 'जुसि च' (५७९) इति गुणः, अजुहवुः । अजुहोः इत्यादि । जुहोतु जुहुतात् जुहुतां जुड्वतु । 'हुझल्भ्यो हेधि:', जुहुधि । जुहवानि । जुहुयात्, जुहुयाताम् 11 6 २. डु भृञ् धारणपोषणयोः । उभयपदी । ३. माङ् माने । आत्मनेपदी । ४. ओ हाङ् गतौ । । " 'भृञामित्' (६१९) इत्यभ्यासाकारस्य इत्वम् ॥ विभृहि । बिभराणि । विभृयात् । बिभर्ति बिभृतः बिभ्रति । अबिभः अबिभृताम् अबिभरुः । अबिभः । । अभिभः विनतुं ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२२६&oldid=347595" इत्यस्माद् प्रतिप्राप्तम्