एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिनिष्ठाकाण्डः । दधाति । आल्लोपे दध् + तस् इति स्थिते– जुहोत्यादिगण:] ६४० । दधस्तथोच । (८-२-३८) 'एकाचो बशो भष् झषन्तस्य स्ध्वोः' (६८) इत्यस्मात् उत्तरं सूत्रमिदम् । द्विरुक्तस्य झषन्तस्य धा-धातोर्बशो भष् स्यात् तथयोः रध्वोश्च परतः । इति भष्भावेन धध् + तस् । 'झषस्तथोर्धोऽधः' इति धादेशस्तु न भवति, अध इति निषेधात् । चर्त्वम्- ● २०९ धत्तः, दधति । दधासि, धत्थः धत्थ । अदधात्, अधत्ताम् अदधुः । दधातु । धेहि । दध्यात् । (तङि) धत्ते, दधाते, दधते (भभावः) धत्से, धध्वे । अधत्त, अधध्वम् । धत्तां, धत्व । दधै । दधीत । १०. णिजिर् शौचपोषणयोः । उभयपदी | ११. विजिर् पृथग्भावे- १२. विष्ल व्याप्तौ " " ‘निजां त्रयाणां गुणः श्लौ' (६१८) इत्यभ्यासस्य गुणः। नेनेक्ति, नेनिक्तः, नेनिजति । अनेनेक् । नेक्तु । नेनिग्धि | ६४१ । नाभ्यस्तस्याचि पिति सार्वधातुके (गुणः) । (७-३-८७) अभ्यस्तस्याङ्गस्य अजादौ पिति सार्वधातुके लघूपधगुणो न । इति गुणनिषेधः । नेनिजानि, नेनिजाव, नेनिजाम । एवं विज्ञ, विष्, इत्येतावपि । विकरणभेदवतां लट्-लङ्-लोट्-लिङां प्रक्रियैवं परिसमापिता । अथ शाश्वतविकरणका लकाराः प्रारभ्यन्ते । शप्श्यनादयो यथा लड्ल- ङादिषु तथा स्यतासादयो ऌड्लृङादिषु च धातुतिङोर्मध्ये स्थित्वा इष्टं रूपं निष्पादयन्ति । शपश्यनादयश्च विकरणप्रत्यया इति व्यवह्नियन्ते । अतः स्यतासादयोऽपि तं व्यपदेशमर्हन्त्येव । श्यनादिवत्ते गणभेदेन न प्रवर्तन्त इत्येव विशेषः । तान्येतानि शाश्वतानि विकरणानि श्यनादि- भयो भेदप्रत्यायनाय संस्करणमिति नवेन नामधेयेन व्यवहरिष्यामः । पूर्वाचार्यास्तु स्यतासादीन् तत्तन्नाम्नैव व्यपदिष्टवन्तः, न तु कयापि सामान्यसंज्ञया || न तु कापि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२२८&oldid=347597" इत्यस्माद् प्रतिप्राप्तम्