एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [इड्व्यवस्था ६५८ | न वृद्भ्यश्चतुर्भ्यः । (७-२-५९) वृतु, शृधू, स्यन्दू, वृधू एभ्यश्चतुर्भ्यः सकारादेरार्धधातुकस्य परस्मैपदेषु इट् न । यथा – वृत् - वर्त्स्यति, वर्तिष्यते । - २१४ ६५९ । तासि च क्लृपः । (७-२-६०) यथा –कल्प्ता, कल्प्स्यति । आत्मनेपदे तु—कल्पितासे, कल्पिष्यते । ६६० । अचस्तास्वत्थल्यनिटो नित्यम् । (७-२-६१) (तास्वत्) तासाविव ये नित्यमनिटोऽजन्ता धातवः तेभ्यस्थलि (लिण्मध्यमैकवचने) इडागमो न स्यात् । यथा— तास् । तास् । थल् । चिचेथ । या ययाथ । चि–चेता याता नी नेता निनेथ । हु – होता जुहोथ । प्रत्यु० – ( 'अचः' किम् ? ) भिद्-भत्ता, बिभेोदथ । ('ताखत्' किम् ? ) लू-लूत्वा (क्त्वा) लुलविथ । ('नित्यम्' किम् ? ) धू-धोता, धविता, दुधविथ । तासौ धूधातोर्वेट्त्वात् स न नित्यानिट् । अतश्च थलि इनिषेधो न । अत्र तावदिड्डिधौ विधिरूपो निषेधरूपो विकल्परूपो वा विशेषविधि- स्तासौ न क्रियत इति तासिः सेट्त्वानिट्त्वपरीक्षायां मूर्धाभिषिक्तो- दाहरणत्वेनोपात्तः । अत उक्तं 'तास्वनिटो नित्यम्' इति ॥ इण्न || ६६१ । उपदेशेऽत्वतः । (७-२-६२) (हलन्तस्यापि) उपदेशे अकारवतस्तासीव नित्यानिटो धातोस्थल ६६२ | ऋतो भारद्वाजस्य । (७-२-६३) - तासीव नित्यानिट ऋदन्तस्यैव धातोस्थल इण्न भारद्वाजस्य मते ॥ अनेन सूत्रत्रयेण किमायातमिति पश्यामः – तासावनिट्सु धातुषु अजन्तानाम् अकारवतां च थल्यपि नेट् । भारद्वाजस्त्वाचार्य ऋदन्ताना- मेव तासावनिटां थलि इनिषेधमिच्छति । तथा च तासावनिट्सु ऋदन्तः थलि सर्वमतेऽप्यनिट् । ऋद्भिन्नाजन्तः अकारवांश्च भारद्वाजमते रासायनि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२३३&oldid=367395" इत्यस्माद् प्रतिप्राप्तम्