एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [इव्यवस्था यम रम नम इत्येतेषाम् आदन्तानां च परस्मैपदे सिचि सगागमः सक् इति विवेकः । यथा- स्यात् इडागमश्च । सिच धातो: इटू, यम् + स् + तां – यम् + स् + इस् + तां - यंसिष्टाम् । अडागमेन - अयं- + - - सिष्टाम् । एवं व्यरंसिष्टाम्, अनंसिष्टाम्, अयासिष्टाम्, अभासिष्टाम् इत्यादि । ६६८ । स्मिपूछ्रञ्ज्वशां सनि । (७-२-७४) ६६९ । किरश्च पञ्चभ्यः । (७-२-७५) स्मिङ्, पूङ् ऋ, अञ्जू, अश, कृ, गृ, दृङ्, धृङ्, प्रच्छ एभ्यः सन इट् । अथ इडागमो निषिध्यते- २१६ - ६७० । नेट्टशिकृति । (७-२-८) वशादौ कृत्प्रत्यये इडागमो न । यथा - - ईश्—ईश्वरः । भस्—भस्म । याच्– याच्या । प्रत्यु० - तिङि तु– रुद, रुरुदिव । ६७१ । तितुत्रतथसिसुसरकसेषु च । (७-२-९) एषु कृत्प्रत्ययेष्विडागमो न । यथा— = - तन् + ति = तन्तिः (= तांतः) । दीप् + ति = दीप्तिः । सच् + तु = सक्तुः। तन् + त्र = तन्त्रम् | हस् + तं = हस्तः । इत्यादि । एषु ‘ति’ इति क्तिन्क्तिचो: सामान्यग्रहणम् । तयोः क्तिन् सर्वधातुभ्यो भवति भूति:, वृति:, युतिः, वृद्धिः, गुप्तिः इत्यादि । अन्ये प्रत्ययास्त्वौ- णादिकत्वादकिञ्चित्कराः । क्तिन्प्रत्यये च – ॥ * ॥ अग्रहादीनामिति वक्तव्यम् || इति वार्त्तिकात् गृहीति:, उपस्निहीतिः, निकुचितिः इत्यादिष्विडागमो द्रष्टव्यः ॥ ६७२ । एकाच उपदेशेऽनुदात्तात् । (७-२-१०) अयमेव मुख्य इग्निषेधः । उपदेशे यो धातुरेकाच्, अनुदात्तश्च तस्मादिडागमो न स्यात् । इह धातुपाठे धातव उदात्ता अनुदात्ताश्चेति द्विधा विभक्ताः । अनुदात्तेष्वेकाचोऽनिटः । अनेकाच उदात्ताश्च सेट

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२३५&oldid=347604" इत्यस्माद् प्रतिप्राप्तम्