एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिनिष्ठाकाण्ड: । ६७९ । लुटः प्रथमस्य डारौरसः । (२-४-८५) लुट: प्रथमपुरुषप्रत्ययानां डा, रौ, रस् इत्यादेशाः स्युः । विशेष- कथनाभावात् उभयोरपि पदयोः । ततश्च तिप्तसझीनां तातांझानां च लुटि डा रौ रस् इति प्रत्ययाः । तत्र डा इति डित्करणं पूर्वस्य टेर्लोप- नार्थम् । भवित् + आ = भविता । 'रि च' इति ‘तासस्त्यो...' इति च सलोपः-- भविता भवितारौ भवितारः । भवितासि भवितास्थः भवितास्थ । भवितास्मि भवितास्वः भवितास्मः । (२) एध वृद्धौ, सेट् - एधिता एधितारौ एधितारः । एधितासे एधितासाथे एधिताध्वे । लुट्–तासिसं०] - २१९ ६८० । धिच (सस्य लोपः) । (८-२-२५) धकारादौ प्रत्यये परे सकारस्य लोप: स्यात् इति सूत्रेण सलोपः । 'इ एति' इति तास् सकारस्य हृत्वम्- एधिताहे एधितास्वहे एधितास्महे । - ८ (३) दुह – ('दादेर्धातोर्घः' (६४) धत्वं,) –ढोग्धा दोग्धारौ । (४) लिह-गुणः 'हो ढः' (६३) धत्वं, टुत्वं 'ढलोपः' (८१) लेढा लेढारौ । (५) वह-ढत्वधत्वष्टुत्वेषु कृतेषु दीर्घापवाद आंत्वम् । यथा-- ६८१ । सहिवहोरोदवर्णस्य । (६-३-११२) सह, वह इत्यनयोरवर्णस्य ओत्स्यात् ठूलोपे || सोढा सोढारौ । एवम् – वोढा वोढारौ । (६) सृज विसर्गे, (७) दृशिर् प्रेक्षणे । अनयोर्लघूपधगुणापवादः अमा- गम उच्यते- ६८२ । सृजिदृशोर्झल्यमकिति । (६-१-५८) अनयोर्झलादावकिति प्रत्यये परे अमागमः । ब्रह्मादिषत्वं BF स्रष्टा स्रष्टारौ । द्रष्टा द्रष्टारौ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२३८&oldid=347607" इत्यस्माद् प्रतिप्राप्तम्