एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [कित्त्व - प्र० - (४) कृञ् करणे, अनिट्, उभयपदी – आत्मनेपदे वक्ष्यमाणेन सिच: कित्त्वेन गुणनिषेधः, तथासो: 'हस्वादङ्गात्' (६८५) इति, ध्वमि ‘घि च' (६८०) इति च सलोप:- 1- अकृत अकृषातां अकृषत । अकृथाः अकृषाथां अकृढम् । अकृषि अकृष्वहि अकृष्महि । (परस्मैपदे वक्ष्यमाणा वृद्धिः,) अकार्षीत् अकाम् अकार्षुः । अकार्षीः अकार्ष्टम् अकार्ष्ट । अकार्षम् अकार्ष्व अकार्ष्म । वृद्ध्या ह्रस्वाङ्गस्याभावान्न सलोपः ॥ २२२ अत्र परस्मैपदे सिचि वृद्धिः, आत्मनेपदे सिच: कित्त्वं च वक्त- व्यं वर्तते । तयोः प्रथमं कित्त्वं वक्ष्यामः – तत्र चानुवृत्तिप्रदर्शनाय कित्त्वप्रकरणमेवोच्यते- - कित्त्वप्रकरणम् ॥ ६८७ । असंयोगाल्लिट् कित् । (अपित्) । (१-२-५) असंयोगान्तात् (केवलहलन्तात् अजन्ताद्वा) धातोः परोऽपिल्लिट् कित् स्यात् । कित्त्वाद्गुणनिषेधादयः । यथा— भि—बिभेद बिभिदतुः बिभिदुः । निन्यतुः निन्युः । ईजतुः ईजुः । नी – निनाय यज -इयाज बिभिदे | कित्त्वात् गुणो न । निन्ये ईजे । संप्रसारणम् । ६८८ । इन्धिभवतिभ्यां च । (१-२-६) आभ्यां परो लिट् कित् स्यात् । यथा - बभूव बभूवतुः बभूवुः । कित्त्वात् गुणाभावः । इन्धेः छन्दस्युदाहरणम् । ६८९ । मृडमृदगुधकुषक्लिशवदवसः क्त्वा । (१२-७) एभ्यः क्त्वा कित् स्यात् । क्त्वः कित्ववचनं, 'न क्त्वा सेट्' इति कित्व- निषेधस्य बाधनार्थम् । यथा- ८ , -- मृडित्वा, मुदित्वा, क्लिशित्वा, उदित्वा, उषित्वा इत्यादि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२४१&oldid=347610" इत्यस्माद् प्रतिप्राप्तम्