एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६ लघुपाणिनीये [सिचि वृद्धिः ७०६ । अतो हलादेर्लघोः । (७-२-७) इलादेर्लघोरकारस्य इडादौ परस्मैपदे सिचि वृद्धिर्वा । यथा - रण-अराणीत् अरणीत् । भण -अभाणीत् अभणीत् । दिव्— अदेवीत् अदेविष्टाम् । अटीत् । अरक्षिष्टाम् । अपाक्ताम् । प्रत्यु० – ('अतः' किम् ?) इह सङ्ग्रह:- Com ('हलादे:' किम् ?) अट - मा भवान् ('लघो:' किम्?) रक्ष – अरक्षीत् ('सेटि' किम् ?) पच-अपाक्षीत् सिचि वृद्धिरिगन्तानाम् हलन्तानामचोऽनिटि । सेटि तु स्याद्रजवदोररन्तालन्तयोरपि ॥ सेट्स्वन्येषु हलन्तेषु वा हलादेर्लघोरतः । जागृक्षणश्वसश्वीनां हमयान्तैदितां च न ॥ (५) वस निवासे,—अनिट्, – परस्मैपदी । अनित्वात् 'वदुव्रजहलन्तस्याच:' (७०२) इति नित्यं वृद्धिः, अवास्सीत् इति जायते । ७०७ । सः स्यार्धधातुके (तः) । (७-४-४९) सस्य तः स्यात् सादावार्धधातुके । 'आस्से', 'चकास्से' इत्यादौ मा भूदिति आर्धधातुकग्रहणम् । अनेन तादेश:, अवात्सीत् अवा- ताम् अवात्सुः । एवं-वत्स्यति, अवत्स्यत्, जिघत्सति, दित्सति इत्या- दावपि तादेशो बोध्यः ।। (६) या प्रापणे – अनिट्, परस्मैपदी || - , , 'यमरमनमातां सक्च' (६६७) इति धातोः सक्, सिचश्चेट् । अयासीत् अयासिष्टाम् अयासिषुः इत्यादि । एवं 'स्तु सु धूभ्यः... (६६६) इति इड्डिधिरन्ये च प्रक्रियाविशेषाः सिचस्तत्र तत्रोक्ता अत्रानु- संधेयाः ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२४५&oldid=347614" इत्यस्माद् प्रतिप्राप्तम्