एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिचो लुक्] परिनिष्ठाकाण्डः । सिचो लुक् ॥ ७०८ । गाति-स्था-घु-पा-भूभ्यः सिचः परस्मैपदेषु 7510 (लुक्) । (२-४-७७) गा, 'इणो गा लुङि' इति विहित आदेशः, स्था, घु, पा (पाने), भू एभ्यः परस्मैपदेषु सिचो लुक् । सिचो लुकि 'आतः’ (४९९) इति झेर्जुस् । यथा— hirsiz गा- अगात् अगाताम् अगु । अगाः अगातम् अगात । अगाम् अगाव अगाम । स्था- अस्थात् अस्थाताम् अस्थुः दा – अदात् - अदाताम् अदुः - भू – अभून् । अस्य विशेषौ कथ्येते- — पदे सिच्छ्रयत एव — - स्था — प्रास्थित - दा- अदित - धा- -अधात् अधाताम् अधुः पा- अपात् अपाताम् अपुः ७०९ । भूसुवोस्तिङि (सार्वधातुके न गुणः) । (७-३-८८) 'भू' इत्यस्य, 'षूङ् प्राणिप्रसवे' इत्यादादिकस्य च सार्वधातुके तिङि न गुणः । अनेन भूधातोः सिज्लुकि न गुण: । सू इत्यस्य लोडुत्तमे न गुणः || ७१० । भुवो वुग्लुङलिटो: (अचि) । (६-४-८८) भूधातोर्वुगागमो लुङलिटोरचि । उवङादेशस्यापवादः । सिचो लुप्तत्वात् आदन्तत्वाभावाच्च झेर्न जुस्, 'झोऽन्तः ॥ २२७ अभूत् अभूताम् अभूवन् । अभूः अभूतम् अभूत । अभूवम् अभूव अभूम । ‘गातिस्था........' इति प्रकृतसूत्रे 'परस्मैपदेषु' इत्युक्तेरात्मने- प्रास्थिषातां प्रास्थिथाः । अदिषातां अदिशा: धा-अधित अधिषाताम् अधिथाः । एषु 'स्थाध्वोरिच' (६९९) इति इत्वं सिचः कित्त्वं च ॥ प्रस्थिषत । अदिषत । अधिषत ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२४६&oldid=347615" इत्यस्माद् प्रतिप्राप्तम्